________________
Jain Education
सवत्थापविद्धो मज्झत्थो जीविए अ मरणे अ । चरणपरिणामजुत्तो जो सो आराहओ भणिओ ॥ १६९१ ॥
अन्यमिवात्मानं प्राक्तनादात्मनः 'संवेगातिशयात् ' संवेगातिशयेन 'चरमकाले' प्राणप्रयाण काले मन्यते शुद्धभावः सन् सर्वासदभिनिवेशत्यागेन यः स आराधको भणितस्तीर्थ करगणधरैरिति गाथार्थः ॥ १६९० ॥ अयमेव विशिष्यते - 'सर्वत्राप्रतिबद्ध:' इहलोके परलोके च, तथा मध्यस्थो जीविते मरणे च, न मरणमभिलपति नापि जीवितमित्यर्थः, चरणपरिणामयुक्तो, न तद्विकलो, य एवंभूतः स आराधको भणितस्तीर्थकर गणधरैरिति गाथार्थः ॥ अस्यैव फलमाहसो तप्पभावओ च्चि खविरं तं पुवदुक्कडं कम्मं । जायइ विसुद्धजम्मो जोगो अ पुणोऽवि चरणस्स १६९२ एसो अ होइ तिविहो उक्कोसो मज्झिमो जहण्णो अ । लेसादारेण फुडं वोच्छामि विसेसमे एसिं ॥ १९३॥
'सः' एवंभूतः 'तत्प्रभावत एव चारित्रपरिणामप्रभावादेव 'क्षपयित्वा' अभावमापाद्य तत् पूर्वदुष्कृतं कर्म, शीतलविहारजं, जायते ' विशुद्धजन्म' जात्यादिदोषरहितः योग्य एव पुनरपि तज्जन्मापेक्षया, चरणस्येति गाथार्थः ॥ ९२ ॥ त्रिविध आराधको भवतीति तद्विशेषमभिधातुमाह-एप चाराधको भवति त्रिविधः, त्रैविध्यमेवाह - उत्कृष्टो मध्यमो जघन्यश्च, भावसापेक्षं चोत्कृष्टत्वादि, यत एवमतो 'लेश्याद्वारेण'ले श्याङ्गीकरणेन' स्फुटं प्रकटं वक्ष्यामि विशेषमेतेषाम्| उत्कृष्टादिभेदानामिति गाथार्थः ॥ ९३ ॥ तत्र —
सुक्काए लेसाए उक्कोसग मंसगं परिणमित्ता । जो मरइ सो हु णिअमा उक्कोसाराहओ होइ ॥ १६९४॥
For Private & Personal Use Only
inelibrary.org