SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे ॥२३७॥ 'पापः' अतिरौद्रः, यतस्तत:-प्रमादादनेके चतुर्दशपूर्वधरा अपि, तिष्ठन्त्वन्ये, अनन्तकाये परिवसन्ति, वनस्पताविति क्लिष्टतागाथार्थः ॥ ८५॥ किञ्च-दुःखं लभ्यते-कृच्छ्रेण प्राप्यते 'ज्ञान' यथास्थितपदार्थावसायि, तथा ज्ञानं 'लब्ध्वा' प्राप्य परिहारः 'भावना' एवमेवैतदित्येवंरूपा दुःखं भवति, भावितमतिरपि जीवः कथञ्चित् कर्मपरिणतिवशात् 'विषयेभ्यः' शब्दादिभ्यो 'विरज्यते' अप्रवृत्तिरूपेण दुःखं, तत्प्रवृत्तेः सात्मीभूतत्वादिति गाथार्थः॥८६॥ एवं गुरुकर्मपरिणतेः क्लिष्टचित्तादिभावोऽविरुद्धः, द्रव्यश्रमणमाह-अन्ये तु प्रथममेव-आदित एवारभ्य चारित्रमोहनीयक्षयोपशमहीनाः, चारित्रमन्तरेणैव प्रव्रजिताः, द्रव्यत एवम्भूताः सन्तो न लभन्ते पश्चादपि तत्रैव तिष्ठन्तश्चारित्रपरिणाम-प्रव्रज्यास्वतत्त्वरूपमिति गाथार्थः॥ ८७ ॥ एतदेवाह-मिथ्यादृष्टयोऽपि, अपिशब्दादभव्या अपि, केचनेह-लोके शासने वा भवन्ति । द्रव्यलिङ्गधारिणो-विडम्बकायाः, 'तत् तस्मात्तेषामेवम्भूतानां कथं न भवन्ति ?, भवन्त्येव, क्लिष्टचित्तादयो दोषाः प्रागुपन्यस्ता इति गाथार्थः ॥ ८८ ॥ तत्रैव प्रक्रमे विधिशेषमाहएत्थ य आहारो खलु उवलक्खणमेव होइ णायहो। वोसिरइ तओ सवं उवउत्तो भावसल्लंपि॥१६८९॥ | अत्र च अनशनाधिकारे आहारः खलु परित्यागमधिकृत्योपलक्षणमेव भवति ज्ञातव्यः शेषस्यापि वस्तुनः, तथा चाह-IN |'व्युत्सृजति' परित्यजति 'असी' अनशनी सर्व उपयुक्तः सन् भावशल्यमपि सूक्ष्ममिथ्यात्वादीति गाथार्थः ॥ ८९॥ किं बहुना ?अण्णंपिव अप्पाणं संवेगाइसयओ चरमकाले।मण्णइ विसुद्धभावो जो सो आराहओ भणिओ॥१६९०॥ CAR** - - Jain Education w.jimhelibrary.org a For Private Personal Use Only l
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy