SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ RSERICA-%A SAMROCCOLOCALORDCRA कान्दी कैल्बिपिकी आभियोगिकी आसुरी च सम्मोहनी, कन्दर्पोदीनामियमिति सर्वत्र भावनीयम् , एषा तु सङ्क्लिष्टा पञ्चविधा भावना भणिता, तत्तत्स्वभावाभ्यासोभावनेति गाथार्थः॥२८॥ यःसंयतोऽपि सन् व्यवहारतः एतास्वप्रशस्तासु भावनासु वर्त्तते कथञ्चिद् भावमान्द्यात् स तद्विधेषु गच्छति सुरेषु कन्दर्पादिप्रकारेषु, भाज्यश्चरणहीनःसर्वथा तत्सत्ताविकलः द्रव्यचरणहीनो वेति गाथार्थः॥ २९ ॥ तत्र-कन्दर्पवान् कन्दर्पः, एवं कौकुच्यः द्रुतदर्पशीलश्चापि हासकरश्च तथा विस्मापर्यश्च परान् कान्दप्पी भावनां करोतीति गाथार्थः ॥ ३०॥ कन्दर्पवान् कान्दप्पी भावनां करोतीत्युक्तं, स च यस्य कहकहकहस्येति 'सुपां सुपो भवन्तीति तृतीयार्थे षष्ठी, कहकहकहेन हसनं, अट्टहास इत्यर्थः, तथा कन्दर्पः-परिहासः स्वानुरूपेण, अनिभृताश्च संलापाः, गुदिनापि निष्ठरवक्रोक्त्यादया, तथा कन्दपंकथाकथनं-कामकथाग्रहः, तथा कन्दर्पोपदेशो-विधानद्वारेण एवं कुर्विति, शंसा च-प्रशंसा च कन्दर्पविषया यस्य स कन्दर्पवान् ज्ञेय इति गाथार्थः॥ ३१॥ कौकुच्यवन्तमाह-भ्रूनयनादिभिर्देहावयवैः वचनैश्च तैस्तैहासकारकैः तथा चेष्टां करोति क्वचित् तथाविधमोहदोषाद् यथा कुकुचमेव-गात्रपरिस्पन्दवद् हसति परः तद्रष्टा, आत्मनाऽहसन् , अभिन्नमुखराग इव, य एवंविधः स कौक्रुच्यवानिति गाथार्थः ॥ ३२॥ दुतदर्पशीलमाह-भाषते दुतं दुतमसमीक्ष्य, सम्भ्रमावेगाद् गच्छति च द्रुतं दुतमेव, 'दर्पित इव' दोधुर इव 'गोवृषभो' बलीवईविशेषः शरदि काले, तथा सर्वदुतकारी असमीक्ष्यकारीतियावत् , तथा स्फुटतीव तीव्रोद्रेकविशेषात् स्थितोऽपि सन् 'दर्पण' कुत्सितबलरूपेण, य इत्थम्भूतः स दुतदर्पशील इति गाथार्थः ॥ ३३ ॥ हासकरमाह-वेषवचनैः तथा चित्ररूपैहाँसं जनयन् आत्मनः परेषां च R OKAR Jain Educa t ional For Private & Personel Use Only jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy