________________
अब्भत्था सुहजोगा असवत्ता पायसो जहा समयं । एसो इमस्स उचिओ अमरणधम्मेहिं निद्दिट्टो ॥१५९० ॥ ता आराहेमु इमं चरमं चरमगुणसाहगं सम्मं । सुहभावविवड्डी खलु एवमिह पवत्तमाणस्स ॥ १५९१ ॥ उचिए काले एसा समयंमिवि वण्णिआ जिणिदेहिं । तम्हा तओ ण दुट्टा विहिआणुट्टाणओ चेव ॥ १५९२ ॥
आह-आत्मवधनिमित्तमेषा-संलेखना कथं युज्यते ?, यतिजनस्य समभाववृत्तेः सतः, तथा समयार्थविरोधतश्चैवेति गाथार्थः ॥ ८३ ॥ विरोधमाह-त्रिविधा अतिपातक्रिया, कथमित्याह - आत्मपरोभयगता यतो भणिता समये बहुशोऽनिष्टफलदेयं क्रिया धीरैरनन्तज्ञानिभिः - सर्वज्ञैरिति गाथार्थः ॥ ८४ ॥ भण्यते - सत्यमेतत्-त्रिविधातिपातक्रियेति, नत्वेषा संलेखना क्रिया आत्मवधनिमित्तेति, कुत इत्याह- 'तल्लक्षणविरहात्' आत्मवधक्रियालक्षणविरहात् विरहश्च विहितानुष्ठानभावेन हेतुनेति गाथार्थः ॥ ८५ ॥ या खलु प्रमत्तयोगात् सकाशात् नियमाद्रागादिदोषसंसक्ता स्वरूपतः, आज्ञातो बहिर्भूता - उच्छास्त्रा सा भवत्यतिपातक्रिया, इदं लक्षणमस्या इति गाथार्थः ॥ ८६ ॥ या पुनरेतद्वियुक्ता क्रिया शुभभावविवर्द्धनी च नियमेनायत्यां सा भवति शुद्धक्रिया, कुतः ? तल्लक्षणयोगत एवेति गाथार्थः ॥ ८७ ॥ प्रतिपद्यते चैनां - संलेखनक्रियां यः प्रायः कृतकृत्य एवेह जन्मनि, निष्ठितार्थः, शुभमरणमात्रकृत्यः, यदि परं तस्यैषा जायते यथोक्ता - संलेखना शुद्धक्रिया वेति गाथार्थः ॥ ८८ ॥ मरणप्रतीकारभूतैषा, एवं चोक्तन्यायान्न मरणनिमित्ता, यथा गण्डच्छेदक्रिया दुःखरूपाऽपि नात्मविराधनारूपेति गाथार्थः ॥ ८९ ॥ अभ्यस्ता शुभयोगाः औचित्येन असपत्ना यथाऽऽगमं प्रायशो
Jain Education International
For Private & Personal Use Only
•www.jainelibrary.org