SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ तीए अ अपरिभोए ते वदंती ण वंदई सो उ । तं धित्तुमपडिबंधा ताऍ जहिच्छाऍ विहरति ॥ १५४६ ॥ 'न तरेत्' न शक्नुयाद्यदि गन्तुं तत्राचार्यः तदाऽऽगच्छति स एव यथालन्दिकः, क्वेत्याह- अन्तरपल्लिं क्षेत्रात् सार्द्धद्विगव्यूतिस्थां, प्रतिवृषभ ग्रामं द्विगच्यूतस्थं, तथा बहिः क्षेत्राद् अन्यवसतिं क्षेत्र एवागच्छन्तीति गाथार्थः ॥ ४५ ॥ तस्यां च वसतौ अपरिभोगे स्थाने ते साधवो वन्दते तं यथालन्दिकं, न वन्दते स तु तान् साधून्, तथा कल्पस्थितेः, एवं तद् गृहीत्वाऽर्थ शेषमप्रतिबद्धा यथालन्दिकाः ततो यथेच्छया-स्वकल्पानुरूपं विहरन्ति, तमेव पालयन्त इति गाथार्थः ॥ ४६ ॥ जिणकप्पिआ व तहिअं किंचि तिगिच्छं तु ते उ न करिंति । पिडिकम्मसरीरा अवि अच्छिमलंपि वणिति ॥ १५४७ ॥ थेराणं णाणत्तं अतरंते अपिणंति गच्छस्स । तेऽवि अ से फासुएणं करिंति सवं तु परिकम्मं । १५४८ ॥ जिनकल्पिकाश्च यथालन्दिकाः तदा गृहीतार्थशेषे, यथालन्दिककाल एवान्ये, काञ्चिच्चिकित्सां समुत्पन्नेऽप्यातंके ते न कारयन्ति, तथाकल्पस्थितेः, निष्प्रतिकर्म्मशरीरास्ते भगवन्तः, अध्यक्षिमलमपि नापनयन्ति, अप्रमादातिशयादिति गाथार्थः ॥ ४७ ॥ स्थविराणां यथालन्दिकानां नानात्वमेतत् - अशक्नुवन्तं सन्तं स्वसाधुमर्पयन्ति गच्छस्थः तेऽपि च - गच्छ्वासिनः 'से' तस्य प्रासुकेनान्नादिना कुर्वन्ति सर्वमेव परिकर्मेति गाथार्थः ॥ ४८ ॥ एतत्स्वरूपमाह Jain Educeernational For Private & Personal Use Only Dww.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy