________________
उत्तमप्रशस्तध्यानः' प्रवृद्धशुभयोगः हृदयेनेदं-वक्ष्यमाणं वस्तु विचिन्तयन्तीति गाथार्थः॥७२॥ अनुपालित एव दीर्घः पर्यायः-प्रव्रज्यारूपः, वाचना तथा दत्ता उचितेभ्यः, निष्पादिताश्च शिष्याः, कृत ऋणमोक्षः, मम किं साम्प्रतं युक्तम् , एतच्चिन्तयतीति गाथार्थः ॥ ७३ ॥ किन्नु विहारेणाभ्युद्यतेन-जिनकल्पादिना विहराम्यनुत्तरगुणेन, एतत्कालापेक्षया, उताभ्युद्यतशासनेन विधिना-सूत्रोक्तनानुखिये इति गाथार्थः ॥७४॥ प्रारब्धाव्यवच्छित्तिः-प्रव्रज्यानि, वहणमखण्डं इदानीमुचितकरणाद्भवति, इतरथा तु-तदकरणे विरसावसानतः कारणात् न प्रारब्धाव्यवच्छित्तिः, तन्यूनत्वादिति, अत्र द्वारस्य-अव्यवच्छित्तिमनःसंज्ञितस्य सम्पात इति गाथार्थः॥ ७५॥ अभ्युद्यतविहाराभ्युद्यतमरणस्वरूपमाह
जिणसुद्धजहालंदा तिविहो अब्भुजओ इह विहारो।
अब्भुज्जयमरणाप अ पाउगमे इंगिण पारण्णा ॥१३७६॥ 'जिनशुद्धयथालन्दा' जिनकल्पिकाः शुद्धपरिहारिकाः यथालन्दिकाश्चेति त्रिविधोऽभ्युद्यतः 'इह' प्रवचने विहारः,
अभ्युद्यतमरणमपि च इह त्रिविधमित्याह-पादपोपगमनेङ्गितपरिज्ञाः' पादपोपगमनमिङ्गितमरणं भक्तपरिज्ञा चेति Iगाथासमासार्थः॥७६ ॥ व्यासार्थस्त्वस्याः प्रस्तुतं द्वारमेव
सयमेव आउकालंणाउं पुच्छित्तु वा बहुँ सेसं । सुबहुगुणलाभकंखी विहारमब्भुजयं भयई ॥ १३७७ ॥
GOOSE SAURASHISHUSHUAS
Jain Educa
t ional
For Private Personal Use Only
Mjainelibrary.org