________________
ओहेणं सवच्चि तवकिरिआ जइवि एरिसी होइ ।
हवि अइमा विसिट्ठा घिप्पड़ जा चरिमकालम्मि ॥ १३६७ ॥ 'ओघेन' सामान्येन सर्वैव तपःक्रिया आदित आरभ्य यद्यपीदृशी- देहकषायादिसंलेखनात्मिका भवति, तथापि चैषाप्रस्तुता विशिष्टा गृह्यते तपःक्रिया या चरमकाले देहत्यागायेति गाथार्थः ॥ ६७ ॥ एतदेवाह -
परिवालिऊण विहिणा गणिमाइपयं जईणमिअमुचिअं ।
अजुओ विहारो अहवा अब्भुज्जुअं मरणं ॥ १३६८ ॥
परिपाल्य विधिना - सूत्रोक्तेन गण्यादिपदम् आदिशब्दादुपाध्यायादिपरिग्रहः, यतीनामुचितमिदं चरमकाले यदुताभ्युद्यतो विहारः - जिनकल्पादिरूपः अथवाऽभ्युद्यतं मरणं - पादपोपगमनादीति गाथार्थः ॥ ६८ ॥ एसो अ विहारोवि हु जम्हा संलेहणासमो चेव । ता ण विरुद्धो णेओ एत्थं संलेहणादारे ॥ १३६९ ॥
एष च विहारोऽभ्युद्यतः यस्मात् संलेखनासम एव वर्त्तते 'तत्' तस्मान्न विरुद्धो ज्ञेयः 'अत्र' प्रस्तुते संलेखनाद्वारे, भण्यमान इति गाथार्थः ॥ ६९ ॥
भणिऊण इमं पढमं लेसुद्देसेण पच्छओ वोच्छं । दाराणुवाइगं चिअ सम्मं अब्भुज्जुअं मरणं ॥ १३७० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org