________________
A
CROCOCRACK
कालोचितगुणरहिता सती या च स्थापयति प्रवर्तिनीशब्दं तथा निविष्टमपि सन्तं नानुपालयति सम्यगेनमेव विशुद्धभावा सती स्वशक्त्या साऽपि महापापेति गाथार्थः॥ २२॥ इहैव दोषमाहलोगम्मि अ उवघाओ जत्थ गुरू एरिसा तहिं सीसा। लट्ठयरा अण्णेसिं अणायरो होइ अगुणेसु ॥१३२३॥ गुरुअरगुणमलणाए गुरुअरबंधोत्ति ते परिच्चत्ता। तदहिअनिओअणाए आणाकोवेण अप्पावि ॥१३२४॥ तिम्हा तित्थयराणं आराहिंतो जहोइअगुणेसु । दिज गणं गीअत्थे णाऊण पवित्तिणिपयं वा ॥१३२५॥
लोके चोपघातो भवत्येतत्स्थापने, यत्र गुरवः 'ईदृशा' अनाभोगवन्तः तत्र शिष्याः 'लष्टतराः' शोभनतरा इत्यतिशयवचनम् , एवं च क्रियमाणेऽन्येषां प्राणिनामनादरो भवति च गुणेषु गणधरादिसम्बन्धिषु, तदभावेऽपि तत्पदसिद्धे-16 रिति गाथार्थः ॥ २३ ॥ स्वपरपरित्याग एवमित्येतदाह-गुरुतरगुणमलनया गणधरादिपदे सत्ययोग्यानां गुरुतरो बन्ध इत्येवं ते परित्यक्ता भवन्ति, अनर्थयोजनात् , एवं तदहितनियोजनया हेतुभूतया आज्ञाकोपेन च भगवतः आत्माऽपि परित्यक्त इति गाथार्थः॥ २४ ॥ 'तत्' तस्मात्तीर्थकराज्ञामाराधयन् साधुः यथोदितगुणेषु साधुषु दद्याद् गणं गीतार्थों ज्ञात्वा गुणान् , प्रवर्त्तनीपदं वेति गाथार्थः॥ २५ ॥ स्वलब्धियोग्यमाहदिक्खावएहिं पत्तो धिइमं पिंडेसणाइविण्णाआ। पेढाइधरो अणुवत्तओ अ जोगो सलद्धीए ॥ १३२६॥ 'दीक्षावयोभ्यां प्राप्तः' चिरप्रवजितः परिणतश्च धृतिमान् संयमे पिण्डैषणादिविज्ञाता, आदिशब्दाद्वस्वैषणादिपरिग्रहः,
A%ARREARRANGACAGAR
Jain Educationa
tional
For Private & Personal Use Only
njainelibrary.org