________________
श्रीपश्चव. अनुयोगास्तवपरि
नवेदवजिनभवन
हिंसा
ज्ञायां
॥१८१॥
SAKASTOCOMSANGACADGAONG
न च बहनामप्यत्र-लोकेऽविगानम्-एकवाक्यतारूपं शोभनमिति नियमोऽयं, न च न स्तोकानामपि न शोभनमेव, कुत इत्याह-मूढेतरभावयोगेन' बहूनामपि मूढव्यापारभावात् स्तोकानामपि चाभावादिति गाथार्थः ॥ ३८ ॥ न च रागादिविरहितः सर्वज्ञः कश्चित् प्रमाता विशेषकारीति य एवं वेद वैदिकमेव प्रमाणं नेतरदिति, कुत इत्याह-यत्सर्व एव पुरुषाः सामान्येन रागादियुक्ता एव, परपक्षे सर्वज्ञानभ्युपगमादिति गाथार्थः ॥३९॥ दोषान्तरमाह-एवं च'प्रमाणविशेषापरिज्ञाने सति वचनमात्रात् सकाशात् धर्मादोषौ ते प्राप्नुतः म्लेच्छानामपि-भिल्लादीनां, वेत्याह-घातयतां 'द्विजवरं ब्राह्मणमुख्य पुरतो ननु 'चण्डिकादीनां देवताविशेषाणामिति गाथार्थः॥४०॥ न च तेषामपि' म्लेच्छानां न वचनम् अत्र निमित्तमितिद्विजयाते, किन्तु वचनमेव, कुत इत्याह-यन्न सर्व एव म्लेच्छाः 'तं' द्विजवरं तथा घातयन्ति तदा, 'अश्रुततच्चोदनावाक्याद' द्विजघातचोदनावाक्यात् इति गाथार्थः ॥४१॥ अथ 'तत्' म्लेच्छप्रवर्तकं वचनं नात्र रूढं लोक इत्याशक्याहएतदपि वैदिकं न 'तत्र' भिल्ललोके रूढमिति तुल्यमेव 'इदम् अन्यतरारूढत्वम् , अथ तत् म्लेच्छप्रवर्तकं स्तोकमनुचितम्-असंस्कृतमित्याशयाह-'इदमपि वैदिकं चोदनारूपमीदृशमेव-स्तोकादिधर्मक, तेषां म्लेच्छानामाशयभेदादिति गाथार्थः॥ ४२ ॥ अथ तद्वेदाङ्गं खलु द्विजप्रवर्तकमित्याशङ्याह-न तदपि म्लेच्छप्रवर्तकमेवमेव वेदे इत्यत्रापि न मानं, अथ 'तत्र' वेदेऽश्रवणमिदं-मानं, न हि तद्वेदे श्रूयत इत्याशङ्याह-स्यादेतद्-उत्सन्नशाखमेवैतदपि सम्भाव्यत इति गाथार्थः ॥४३॥ न च तद्वचनाद्' वेदवचनादेव 'तदुभयभावो' धांदोषभाव इति, कुत इत्याह-तुल्यभणितेः, म्लेच्छवचना
***AXAR15404AACERAS
॥१८१॥
Jain Educatioti
on
For Private Personal Use Only
www.jainelibrary.org