SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ हिंसां कुर्वत इत्येतदाशयाह-तुल्यमेतदपि, कथमित्याह-'इतरस्यापि च' वेदविहितहिंसाकर्तः शुभ एव ज्ञेयो भावः, 'इतरां' वेदविहितां हिंसां कुर्वतो यागविधानेनेति गाथार्थः ॥ ३१॥ एकेन्द्रियादयोऽथ ते जिनभवनादौ हिंस्यन्त इत्याशङ्कयाह-इतरे स्तोका इति वेदात् यागे हिंस्यन्ते, तत्किमेतेन-भेदाभिनिवेशेन?, धर्मार्थ सर्वैव, सामान्येन वचनाद्, एषाहिंसा न दुष्टेति गाथार्थः ॥ ३२॥ एवं पूर्वपक्षमाशङ्याह-एतदपि न युक्तिक्षमं यदुक्तं परेण, कुत इत्याह-न वचनमात्रादनुपपत्तिकाद् भवत्येवमेतत् सर्वमेव, कुत इत्याह-संसारमोचकानामपि वचनाद्धिंसाकारिणां 'धर्मादोषप्रसङ्गात्' धर्मप्रसङ्गात् अदोषप्रसङ्गाच्चेति गाथार्थः॥३३॥ स्यात् 'तत् संसारमोचकवचनं न सम्यग्वचनमित्याशझ्याह-'इतरत्' वैदिकं सम्यग् वचनमिति किं मानं ?, अथ लोक एव मानमित्याशयाह-नैतत्तथा, लोकस्य प्रमाणतया अपाठात्,प्रमाणमध्ये षट्सङ्ख्याविरोधात्, तथा विगानाच्च, नहि वेदवचनं प्रमाणमित्येकवाक्यता लोकस्येति गाथार्थः॥ ३४॥ अथ पाठोऽभिमत एव लोकस्य प्रमाणमध्ये, पण्णामुपलक्षणत्वात् , विगानमप्यत्र-वेदवचनाप्रामाण्य स्तोकानांमेव लोकानामित्येतदाशल्याह-अत्रापि-एवं कल्पनायां न प्रमाणं, सर्वेषां लोकानामदर्शनाद, अल्पबहुत्वे निश्चयाभावादिति गाथार्थः ॥ ३५॥ किं तेषां सर्वेषां लोकानां दर्शनेन ?, अल्पबहुत्वं यथाऽत्र-मध्यदेशादौ वेदवचनप्रामाण्यं प्रति तथैव सर्वत्र क्षेत्रान्तरेष्वपि समवसेयं, लोकत्वादिहेतुभ्य इत्याशङ्कयाह-नैवं, व्यभिचारभावात् कारणादिति गाथार्थः॥ ३६ ॥ एतदेवाह-अग्राहारे बहवो दृश्यन्ते 'द्विजाः' ब्राह्मणास्तथा न शूद्रा इति ब्राह्मणवद्धहवो दृश्यन्ते, न च तद्दर्शनादेव' अग्राहारे बहुद्विजदर्शनादेव 'सर्वत्र' भिल्लपहयादावप्येतद्भवति एवं-द्विजबहत्वमिति गाथार्थः॥ ३७॥ उपपत्त्यन्तरमाह पञ्चच.३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy