________________
+++
कारणात् पूर्वाचार्याः- भद्रबाहुप्रभृतयः इदमाहुर्वक्ष्यमाणमिति गाथार्थः ॥ ७९ ॥ गीतार्थश्च विहारः, तदभेदोपचारात्, द्वितीयो गीतार्थमिश्रो भणितो, विहार एव, 'अतो' विहारद्वयात् तृतीयविहारः - साधुविहरणरूपः नानुज्ञातो जिनवरैभगवद्भिरिति गाथार्थः ॥८०॥ अस्य भावार्थमाह-गीतार्थस्य नोत्सूत्रा प्रवृत्तिः, 'तद्युक्तस्य' गीतार्थयुक्तस्येतरस्यापि - अगीतार्थस्य ' तथैव' नोत्सूत्रेति, कुत इत्याह- 'नियमेन' अवश्यन्तया चरणवान् यद् - यस्मात् कारणात् 'न जातु' न कदाचिदाज्ञां 'विलङ्घयति' उत्क्रामतीति गाथार्थः ॥ ८१ ॥ न च गीतार्थः सन् अन्यमगीतार्थे न निवारयति अहितप्रवृत्तं, योग्यतां मत्वा निवारणीयस्य, ' एवं ' द्वयोरपि - गीतार्थागीतार्थयोश्चरणं परिशुद्धं, वारणप्रतिपत्तिभ्याम्, अन्यथा नैवोभयोरपीति गाथार्थः ॥८२॥ ता एव विरइभावो संपुण्णो एत्थ होइ णायो । णिअमेणं अट्ठारससीलंगसहस्रूवो उ ॥ ११८३ ॥ ऊणत्तं ण कयाइवि इमाण संखं इमं तु अहिगिञ्च । जं एअधरा सुत्ते णिद्दिट्ठा वंदणिजा उ ॥ ११८४ ॥
'तत्' तस्मादेवम्-उक्तवद्विरतिभावः 'सम्पूर्णः' समग्रः अत्र व्यतिकरे भवति ज्ञातव्य इति, 'नियमेन' अवश्यन्तया अष्टादशशीलाङ्गसहस्ररूप एव, सर्वत्र पापविरतेरेकत्वादिति गाथार्थः ॥ ८३ ॥ ऊनत्वं न कदाचिदपि एतेषां शीलाङ्गानां सङ्ख्यामेतामेवाधिकृत्य - आश्रित्य 'यद्' यस्माद् 'एतद्धराः' अष्टादशशीलाङ्गसहस्रधारिणः सूत्रे प्रतिक्रमणाख्ये निर्दिष्टा वन्दनीयाः, नान्ये, 'अट्ठारससीलंगसहस्वधारा' इत्यादिवचनप्रामाण्यादिति गाथार्थः ॥ ८४ ॥ यस्मादेवं तस्मादेतत् महानेव कश्चित्कर्तुमलं न तु यः कश्चिदित्येतदाह
Jain Educamational
For Private & Personal Use Only
61-6-1962396.19649649646446
www.jainelibrary.org