________________
श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां
॥१६८॥
CLASSACC
तया, किमित्यत आह-विशेषपूजाया-दिगादिगतायाः सकाशाद्वहुगुणा 'एषा' सङ्घपूजा, विषयमहत्त्वाद्, एतदाह-यदेष संघपूजा श्रुते भणितः-आगम उक्तः तीर्थकरानन्तरः सङ्घ इत्यतो महानेष इति गाथार्थः॥३४॥ एतदेवाह-गुणसमुदायः सङ्घः, पूजा च अनेकप्राणिस्थसम्यग्दर्शनाद्यात्मकत्वात् , प्रवचनं तीर्थमिति भवन्त्येकार्थिकाः, एवमादयोऽस्य शब्दा इति, तीर्थकरोऽपि मेगा.११३२
18 ४० चैनं-सई तीर्थसंज्ञिनं नमति धर्मकथादौ गुरुभावत एव, 'नमस्तीर्थायेति वचनादेतदेवमिति गाथार्थः॥ ३५॥ अत्रैवोपपत्त्यन्तरमाह-'तत्पूर्विका' तीर्थपूर्विका अर्हत्ता, तदुक्तानुष्ठानफलत्वात्, 'पूजितपूजा चेति भगवता पूजितस्य पूजा भवति, पूजितपूजकत्वाल्लोकस्य, विनयकर्म च कृतज्ञताधर्मगर्भ कृतं भवति, यद्वा किमन्येन ?, कृतकृत्योऽपि स भगवान् यथा कथां कथयति धर्मसम्बद्धा नमति तथा तीर्थ, तीर्थकरनामकर्मोदयादेवौचित्यप्रवृत्तेरिति गाथार्थः ॥ ३६॥ 'एतस्मिन्' सङ्के पूजिते नास्ति 'तद्' वस्तु यत् न 'पूजितम्' अभिनन्दितं भवति, किमित्यत आह-भुवनेऽपि सर्वत्र 'पूज्यं पूजनीयं न गुणस्थानं कल्याणतः 'ततः' सङ्घादन्यदिति गाथार्थः॥११३८ । 'तत्पूजापरिणामः' सङ्घपूजापरिणामः हन्दि महाविषय एव मन्तव्यः, सङ्घस्य महत्त्वात् , तद्देशपूजातोऽपि एकत्वेन सर्वपूजाऽभावे, ‘देवतापूजादिज्ञातेन' देवतादेशपादादिपूजोदाहरणेनेति गाथार्थः ॥ ३८ ॥ विधिशेषमाहतत्तो अ पइदिणं सो करिज पूअं जिणिंदठवणाए। विहवाणुसारगुरुई काले निअयं विहाणेण॥११३९॥ ॥ जिणपूआएँ विहाणं सुईभूओ तीइ चेव उवउत्तो । अण्णंगमच्छिवंतो करेइ जं पवरवत्थूहि ॥११४०॥
॥१६८॥
JainEducati
For Private
Personel Use Only
V
w
.jainelibrary.org