________________
एवंविहाण देया पव्वज्जा भवविरत्तचित्ताणं। अच्चंतदुक्करा जं थिरं च आलंबणमिमेसिं ॥३९॥
'एवंविधेभ्यो'-बहुगुणसम्पन्नेभ्यो 'देया' दातव्या 'प्रव्रज्या' दीक्षा 'भवविरक्तचित्तेभ्यः'-संसारविरक्तचित्तेभ्यः, किमित्यत्राह-'अत्यन्तदुष्करा यत्' यस्मात् 'स्थिरं चालम्बनममीषां' भवविरक्तचित्तानाममी सदा वैराग्यभावेन कुर्वन्ति । इति गाथार्थः ॥ ३९ ॥ दुष्करत्वनिवन्धनमाह___ अइगुरुओ मोहतरू अणाइभवभावणाविअयमूलो । दुक्खं उम्मूलिजइ अच्चंत अप्पमत्तेहिं ॥४०॥
'अतिगुरुः' अतिरौद्रः 'मोहतरुः' मोहस्तरुरिवाशुभपुष्पफलदानभावेन मोहतरुः 'अनादिभवभावनाविततमूल:'अनादिमत्यो याः संसारभावना विषयस्पृहाद्यास्ताभिव्याप्तमूलः, यतश्चैवमतो 'दुःखमुन्मूल्यते' अपनीयते 'अत्यन्तम-17 प्रमत्तैः'। इति गाथार्थः ॥ ४०॥ __ संसारविरत्ताण य होइ तओ न उण तयभिनंदीणं। जिणवयणंपिन पायं तेसिं गुणसाहगं होइ ॥४१
'संसारविरक्तानां च भवति तक' इत्यसावप्रमादः, 'न पुनः तदभिनन्दिनां,' जिनवचनाद् भविष्यतीति चेत्; एतदाशङ्कयाह-'जिनवचनमपि' आस्तां! तावदन्यत् 'न प्रायस्तेषां' संसाराभिनन्दिनां 'गुणसाधकं भवति,' शुभनिर्वर्तकं भवति । इति गाथार्थः॥४१॥ किमित्यत आह
गुरुकम्माणं जम्हा किलिट्टचित्ताण तस्स भावत्थो।नो परिणमेइ सम्म कुंकुमरागोव्व मलिणम्मि ४२|
Jain Educationainatic
For Private Personal Use Only
www.jainelibrary.org