SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगानुज्ञा ४ R जीवशरीरयोर्भेदाभेदः गा. १०९५११०३ ॥१६३॥ देहेणं देहम्मि अउवघायाणुग्गहेहिं बंधाई।ण पुण अमुत्तोऽमुत्तस्स अप्पणो कुणइ किंचिदवि ॥११०३॥ जीवशरीरयोरपि भेदाभेदः, कथञ्चिद्भेदः कथञ्चिदभेद इत्यर्थः, तथोपलम्भात् कारणात् , मूर्त्तामूर्त्तत्वात् तयोः अन्यथा योगाभावात् , स्पृष्टे शरीरे प्रवेदनाच्च, न चामूर्तस्यैव स्पर्श इति गाथार्थः ॥ ९५ ॥ उभयकृतोभयभोगात् कारणात् 'तदभावाच्च भोगाभावाच्च भवति ज्ञातव्यःजीवशरीरयोर्भेदाभेदः, बन्धादिविषयभावात् कारणाद्, 'इतरथा' एकान्तभेदादौ 'तदसम्भवाच्च बन्धाद्यसम्भवाच्चेति गाथार्थः॥ ९६ ॥ एतदेव प्रकटयन्नाह-अत्र शरीरेण कृतं, कथमित्याह-प्राणवधासेवनया हेतुभूतया यत् कर्म तत् खलु चित्रविपाकं सद्वेदयते 'भवान्तरे' अन्यजन्मान्तरे जीव इति गाथार्थः ॥९७॥ न तु तदेव शरीरं येन कृतमिति, कुत इत्याह-नरकादिषु 'तस्य' शरीरस्य तथाऽभावादिति, भिन्नकृतवेदने चाभ्युपगम्यमानेऽतिप्रसङ्गोऽनवस्थारूपः बलाद् भवतीति गाथार्थः ॥९८॥ एवं जीवेन कृतं तत्प्राधान्यक्रूरमनःप्रवृत्तेन यत् कर्म-पापादि 'तत्पति' तन्निमित्तं रौद्रविपाकं तीव्रवेदनाकारित्वेन वेदयति भवान्तरशरीरं तथाऽनुभवादिति गाथार्थः ॥ ९९॥ न तु केवलो जीवो वेदयते, 'तेन' शरीरेण विमुक्तस्य सतः वेदनाऽभावात् कारणात् , न च स एव जीवस्तच्छरीरमिति, लोकादिविरोधभावाद्, आदिशब्दात्समयग्रह इति गाथार्थः॥११००॥'एवमेव जीवशरीरयोर्भेदाभेद एव देहवधे सति उपकारे वा देहस्य पुण्यपापे भवतः, 'इतरथा' एकान्तभेदादौ 'घटादिभङ्गादिज्ञाततः' घटादिविनाशकरणोदाहरणेन नैव युज्येते पुण्यपापे इति गाथार्थः॥१॥ अभ्युपचयमाह-'तदभेदे च'जीवशरीराभेदे च नियमात् 'तन्नाशे' ***** ॥१६३॥ ** Jain Educati o nal For Private & Personal Use Only vjainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy