SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Jain Educa था वैशिष्ट्यायोगात्, तदाह- हन्दि विशिष्टत्वादुक्तेन प्रकारेण भवन्ति विशिष्टाः स्वसंवेद्याः सुखादयः, आदिशब्दाद्दुःखबन्धादिपरिग्रह इति गाथार्थः ॥ ८३ ॥ विपक्षे वाधामाह--' इतरथा' यथा स्वरूपेण सत् तथा पररूपेणापि भावे सत्तामात्रादिभावाद्, आदिशब्दादसत्त्वमात्रादिग्रह इति, कथं विशिष्टता प्रत्यात्मवेद्यतया 'तेषां' सुखादीनां ?, 'तद्भावे' विशिष्टसुखाद्यभावे 'तदर्थो' विशिष्टसुखार्थो हन्त 'प्रयत्नः' क्रियाविशेषो महामोहोऽसम्भवप्रवृत्त्येति गाथार्थः ॥ ८४ ॥ नित्योऽप्येकस्वभावः स्थिरतया, 'स्वभावभूते' आत्मभूते कथं न्वसौ नित्यः सन् दुःखे, किमित्याह - 'तस्य' दुखस्योच्छेदनिमित्तं विनाशाय असम्भवाद्धेतोः प्रवर्त्तेत कथं ?, नैवेति गाथार्थः ॥ ८५ ॥ एकान्तेनानित्योऽपि चनिरन्वयनश्वरः 'सम्भवसमनन्तरम्' उत्पत्त्यनन्तरम् 'अभावाद' अविद्यमानत्वात् 'पारिणामिक हेतुविरहात्' तथाभाविकारणाभावेन 'असम्भवाच्च' कारणात् 'तस्ये'त्येकान्तानित्यस्य स कथं प्रवर्त्तेत ?, नैवेति गाथार्थः ॥ ८६ ॥ एतदेव समर्थयन्नाह - 'न विशिष्टकार्यभावो' न घटादिकार्योत्पादो न्याय्यः 'अनतीतविशिष्टकारणत्वात्' अनतिक्रान्तनियतकारणत्वादित्यर्थः 'एकान्ताभेदपक्षे' कार्यकारणयोर्नित्यत्वपक्ष इत्यर्थः, 'नियमाद्' अवश्यमेव नेति, तथा 'भेदपक्षे च' कार्यकारणयोरेकान्तानित्यत्वपक्ष इत्यर्थः, नियमादवश्यमेव नेति गाथार्थः ॥ ८७ ॥ उभयत्र निदर्शनमाह - पिण्डवत् पटवदिति च दृष्टान्तौ न घटस्तत्फलं - पिण्डफलमिति प्रतिज्ञा, अनतीतपिण्डभावत्वाद् अभेदपक्षे, पिण्डवद्धेतोः समानत्वाद्, भेदपक्षे पटवत्, 'तदतीतत्वे' घटस्य पिण्डातीततायां 'तस्यैव तथाभावात्' पिडस्यैव घटरूपेण भावाद् 'अन्वयादित्वम्' अन्वयव्यतिरेकित्वं वस्तुन इति गाथार्थः ॥ ८८ ॥ अतः सदसन्नित्यानित्यादिरूपमेव वस्तु तथा चाह - एवंविध एवा national For Private & Personal Use Only **** www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy