SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगा नुज्ञा ४ ॥ १६०॥ Jain Education जह देवाणं संगी अगाइकज्जम्मि उज्जमो जइणो । कंदप्पाईकरणं असम्भवयणाभिहाणं च ॥ १०७८ ॥ तह अन्नधम्मिआणं उच्छेओ भोअण गिहेगऽण्णं । असिधाराइ अ एअं पावं बज्झं अणुट्टाणं ॥ १०७९ ॥ सदाऽप्रमत्ततया हेतुभूतया 'संयमयोगेषु' कुशलव्यापारेषु 'विविध [प्र]मेदेषु' अनेकप्रकारेषु या 'धार्मिकस्य' साधोः 'वृत्तिः' वर्त्तना एतद्वाह्यमनुष्ठानमिहाधिकृतमिति गाथार्थः ॥ ७२ ॥ 'एतेन' अनुष्ठानेन न बाध्यते, सम्भवति च वृद्धिं याति 'तद्वितयमपि' विधिप्रतिषेधरूपं नियमेन, 'एतद्वचनेन यथोदितानुष्ठानोक्त्या शुद्धो य आगमः स छेदेन शुद्ध इति गाथार्थः ॥ ७३ ॥ इहैवोदाहरणमाह-यथा पञ्चसु समितिषु - ईर्यासमित्यादिरूपासु तिसृषु च गुप्तिषु - मनोगुहयादिषु अप्रमत्तेन सता सर्वमेवानुष्ठानं कर्त्तव्यं 'यतिना' साधुना, सदा कायिकाद्यपि, आस्तां तावदन्यदिति गाथार्थः ॥ ७४ ॥ तथा - ये खलु प्रमादजनकाः परम्परया वसत्यादयः, आदिशब्दात् स्थानदेशपरिग्रहः, तेऽपि वर्जनीया एव, सर्वथा 'मधुकरवृत्त्या' गृहिकुसुमपीडापरिहारेण तथा पालनीय एवात्मा, नाकाले त्याज्य इति गाथार्थः ॥ ७५ ॥ अत्र व्यतिरेकमाह-यत्र तु प्रमत्ततया हेतुभूतया 'संयमयोगेषु' संयमव्यापारेषु 'विविधभेदेषु' विचित्रेष्वित्यर्थः नो 'धार्मिकस्य' तथाविधयतेः 'वृत्तिः' वर्त्तना अननुष्ठानं वस्तुस्थित्या तद् भवति, तत्कार्यासाधकत्वादिति गाथार्थः ॥ ७६ ॥ एतेन - अनुष्ठानेन बाध्यते सम्भवति च वृद्धिमुपगच्छति च 'तद्द्वयं' विधिप्रतिषेधरूपं न नियमेन, 'एतद्वचनोपेतः' इत्थंविधानुष्ठानवचनेन (चनः ) अन्यः आगमः स छेदेन - प्रस्तुतेन न शुद्ध इति गाथार्थः ॥७७॥ अत्रैवोदाहरणमाह-यथा देवानां सङ्गीतकादिनिमित्तमुद्यमो 'यतेः' प्रत्रजितस्य, यथोक्तम्- “सङ्गीतकेन देवस्य, प्रीती रावणवाद्यतः । तत्प्रीत्यर्थमतो यतः, तत्र कार्यों ational For Private & Personal Use Only छेदशु शुद्धी ॥ १६०॥ jainelibrary.org.
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy