SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ करणायाह-कादेः'कर्मकालपुरुषकारवातस्य 'तत्स्वभावत्वं' भव्यत्वोपक्रमणादिस्वभावत्वं यथोक्तफलहेतुर्भविष्यति, अत्राह-एतदपि कर्मादि तत्स्वभावत्वमपि कल्प्यमानं न 'तस्य' भव्यत्वस्य 'अतत्स्वभावत्वे' कादिभिस्तथोपक्रमणाद्यस्वभावत्वे किञ्चिदित्याह, 'फलभेदसाधक' काललिङ्गक्षेत्रादिभेदेन मोक्षसाधकमित्यर्थः । हन्दीत्युपदर्शने चिन्तयितव्यमेतत् ‘सुबुद्ध्या' निपुणबुद्ध्या अभव्यमोक्षप्रसङ्गादिद्वारेणेति गाथार्थः॥ ५५ ॥ अथ देशनादि-देशनानुष्ठानादि 'नैव-12 स्वभावं' न मोक्षजननस्वभावं, 'यद्' यस्मात्ततोऽभव्यानां प्राणिनां (नो) खलु मोक्षप्रसङ्ग इति दोषाभाव इति, अत्राह-कथं त्वन्यत्र-मोक्षगामिनि सत्त्वे 'तद्' देशनादि 'एवं' मोक्षजननस्वभावमिति गाथार्थः ॥५६॥ इहैवाक्षेपपरिहारशेषमाहभवत्ते सइ एवं तुल्ले एअंमि कम्ममाईण। तमभवदेसणासममित्थं निअमेण दट्ठव्वं ॥ १०५७ ॥ अह एअदोसभया ण मयं सइ तस्स तस्सभावत्तं। एवं च अत्थओणणु इट्ठो अमईअपक्खोत्ति ॥१०५८॥ जं तमणाइसरूवं एक्कंपि हुतं अणाइमं चेव । सो तस्स तहाभावोऽवि अप्पभूओत्ति काऊण ॥१०५९॥ भव्यत्वे सत्येवं-देशनादिमोक्षजननस्वभावमित्याशङ्याह-'तुल्ये' सर्वथा सदृश एव 'एतस्मिन्' भव्यत्वे सर्वजीवानां 'कादीनां' कर्मकालपुरुषकाराणां 'तत् तत्स्वभावत्वं भव्यत्वोपक्रमणादिरूपं अभव्यदेशनासमं, तत्त्वतो न तत्स्वभावत्वमभव्यभव्यत्ववत्सदृशस्यासादृश्यकारणानुपपत्तेः 'अत्र' व्यतिकरे नियमेन द्रष्टव्यम्-अवश्यन्तयैतदेवं भावनीयम्, एवमपि तथाभ्युपगमे सत्यभव्यमोक्षप्रसङ्गोऽनिवृत्त एवेति गाथार्थः॥ ५७ ॥ अथैतद्दोषभयात् कारणात् न मतं सदा BLOGAS Jhin Educational For Private 3 Personal Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy