________________
श्रीपञ्चव. अनुयोगानुज्ञा ४
॥ १५७ ॥
जातमिह - लोके मुद्गरन्धनाद्यपि बाह्यम्, आस्तां तावदन्यद्, यत एवं तत् सर्वे - कालादयः समुदिता एव हेतवः, | सर्वस्य कार्यस्येति गाथार्थः ॥ ५१ ॥ अत्रापि - प्रक्रमे तावत् स्वभाव इष्ट एवम् उक्तेन प्रकारेण ततो न दोषो 'नः' अस्माकं, कर्म्मवादत्यागस्वभावाभ्युपगमरूपः, स पुनः' स्वभावोऽत्र-प्रक्रान्ते विज्ञेयः किम्भूत इत्याह- भव्यत्वमेव-अनादिपारिणामिकभावलक्षणं चित्रं तु तदा तथापाकादियोग्यतयेति गाथार्थः ॥ ५२ ॥ 'तुल्यमेवैतं ' दित्याशङ्कापनोदायाहएअं एगंतेणं तुलं चिअ जइ उ सवजीवाणं । ता मोक्खोऽवि हु तुल्लो पावइ कालादभेएणं॥ १०५३॥ णय तस्सेगंतेणं तहासहावस्स कम्ममाईहिं । जुज्जइ फले विसेसोऽभव्वाणवि मोक्खसंगं च ॥१०५४॥ कम्माइ तस्सभावत्तणंपि नो तस्स तस्सभावत्ते । फलभेअसाहगं हंदि चिंतिअवं सुबुद्धीए ॥ १०५५ ॥ अह देसणाइ णेवसहावओ (मो) जं तओ अभवाणं । नो खलु मोक्खपसंगो कहं तु अन्नत्थ तं एवं? ॥ १०५६॥
एतदपि - भव्यत्वमेकान्तेन सर्वथा तुल्यमेव- अविशिष्टमेव यदि तु सर्वजीवानां भव्यानामिष्यते ततो मोक्षोऽपि - तद्योग्यताफलरूपः 'तुल्यः प्राप्नोति' सदृश एवापद्यते कथमित्याह - 'कालाद्यभेदेन' काललिङ्गक्षेत्राद्यभेदेनेति गाथार्थः ॥५३॥ न च 'तस्य' भव्यत्वस्यैकान्तेन सर्वथा 'तथास्वभावस्य' तुल्यस्वभावस्य सतः 'कर्मादिभ्यः' कर्म्मकालपुरुषकारेभ्यो 'युज्यते' घटते फले विशेषः - मोक्षाख्ये कालादिभेदलक्षणः, कुत इत्याह- अभव्यानामपि मोक्षसङ्गात् तेषामेतत्स्वभावत्वेऽपि देशनादिभ्यः तद्विशेषापत्तेरिति गाथार्थः ॥ ५४॥ तत्तुल्यतायामपि कर्म्मादेस्तत्स्वभावत्वात् स फलभेद इति मोहनिरा
Jain Education International
For Private & Personal Use Only
कालादे हैतुता भव्यत्वचित्रता
॥ १५७ ॥
www.jainelibrary.org