SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Jain Education 'गीतार्थो' गृहीतसूत्रार्थः ‘कृतयोगी' कृतसाधुव्यापारः 'चारित्री' शीलवान् 'तथा च ग्राहणाकुशल: ' क्रियाकलापशिक्षणानिपुणः 'अनुवर्त्तकः' स्वभावानुवर्त्तकः स्वभावानुकूल्येन प्रतिजागरकः 'अविषादी' भावापत्सु 'द्वितीयः' अपवा दिकः 'प्रवाजनाचार्यः' प्रव्रज्याप्रयच्छको गुरुः । इति गाथार्थः ॥ ३१ ॥ केनेति व्याख्यातम्, अधुना, केभ्य इति व्याख्यायते - केभ्यः प्रव्रज्या दातव्या ? के पुनस्तदर्हाः ? इत्येतदाह पव्वज्जाए अरिहा आरियदेसम्मि जे समुप्पन्ना । जाइकुलेहिं विसुद्धा तह खीणप्पायकम्ममला ॥३२॥ 'प्रव्रज्याया अर्हा' योग्याः क ? इत्याह- 'आर्यदेशे ये समुत्पन्ना' अर्द्धषड् विंशतिजनपदेष्वित्यर्थः १ । ' जातिकुलाभ्यां विशिष्टाः, ' 'मातृसमुत्था जातिः, पितृसमुत्थं कुलं २ । 'तथा क्षीणप्रायकर्म्ममला' अल्पकर्माणः ३ । इति गाथार्थः ॥ ३२ ॥ तत्तो अविमलबुद्धी दुलहमणुअत्तणं भवसमुद्दे । जम्मो मरणनिमित्तं चवलाओ संपयाओ अ ॥३३॥ 'ततश्च' कर्मक्षयात् 'विमलबुद्धयः ४' । विमलबुद्धित्वादेव च 'दुर्लभं मनुजत्वं भवसमुद्रे' संसारसमुद्रे तथा 'जन्ममरणनिमित्तं चपलाः सम्पदश्च' इति गाथार्थः ॥ ३३ ॥ विसया य दुक्खहेऊ संजोगे निअमओ विओगुत्ति । पइसमयमेव मरणं एत्थ विवागो अ अइरुद्दो ३४ 'विषयाश्च दुःखहेतवः' तथा 'संयोगे' सति 'नियमतो वियोग इति' । 'प्रतिसमयमेव मरणम्' आवीचिमाश्रित्य 'अत्र विपाकश्चातिरौद्रः परभवे । इति गाथार्थः ॥ ३४ ॥ tional For Private & Personal Use Only ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy