________________
Jain Education
ग्रैवेयकाणि, क्रियामात्रफलमेतन्निरनुबन्धित्वात्तुच्छमिति गाथार्थः ॥ ३९ ॥ यदि नामैवं ततः किमित्याह - लिङ्गे च यथोदिते सति 'यथायोगं' यथासम्भवं भवति 'अदः श्रुतधर्म्मः प्राणिनाम्, उपपत्तिमाह - सूत्र पौरुष्यादि 'यद्' यस्मात् ' तत्र' लिङ्गे ' नित्यकर्म्म ' नित्यकरणीयं प्रज्ञप्तं वीतरागैर्भगवद्भिरिति गाथार्थः ॥ ४० ॥ निगमयन्नाह - 'एवम्' उक्तेन प्रकारेण प्राप्तोऽयं खलु श्रुतधर्म्मः न च सम्यक्त्वम्, इयता कालेन सिद्धिप्रसङ्गात्, तत् कथं' केन प्रकारण 'ततः ' श्रुतधम्र्माद् एतत् सम्यक्त्वं ?, कथं वा एष एव श्रुतधर्म्मः एतस्य सम्यक्त्वस्य कालभेदेन भवतः सतो हेतुः ?, नैव, तद्भावभावित्वाभावादिति गाथार्थः ॥ ४१ ॥ अत्रोत्तरमाह
भण्णइ पत्तो सोण उ उल्लसिअं जीववीरिअं कहवि । होउल्लसिए अ तयं तंपि अ पायं तओ चेव ॥१०४२॥ जह खाराईहिंतो असइंपि अपत्तवेहपरिणामो । विज्झइ तेहिंतो चिअ जच्चमणी सुज्झइ तओ उ॥ १०४३ ॥ तह सुअधम्माओच्चिय असइंपि अपत्तविरिअपरिणामो । उल्लसई तत्तो चि भवो जीवो विसुज्झइ अ ॥ ९०४४ ॥
तस्सेव य (वे ) स सहावो जं तावइएस तह अईएसु । सुअसंजोएसु तओ तहाविहं वीरिअं लहइ ॥१०४५ ॥ भण्यते प्राप्तोऽसौ श्रुतधर्म्मः पुरा बहुधैव न तूल्लसितं कर्म्मविजयाय ' जीववीर्यम्' आत्मसामर्थ्यं कथमपि तथा
For Private & Personal Use Only
jainelibrary.org