________________
श्रीपञ्चव. अनुयोगानुज्ञा ४
॥ १५५ ॥
Jain Education
पश्चादपि तस्य हेतोरपरस्य घटने किं कारणम् ?, अथाकारणं तदपरहेतुघटनं नित्यं तद्भावाभावौ, तदविशेषात् कारणा भावे चापरहेतुघटनस्य नाहेतुः कश्चिदपर इति गाथार्थः ॥ ३४ ॥ एतदेवाह - तस्यापि हेतुघटन हेतोरेवमयोगाद्, अकारण| सकारणत्वेनोक्तदोषा निवृत्त्या, उपचयमाह - 'कर्म्मायत्ताश्च' कर्म्मपरिणतिहेतुकाश्ञ्च'सर्वसंयोगा' बाह्याभ्यन्तराः, तदपि कम्मोंत्कृष्टस्थितेरारभ्य ग्रन्थिं यावत् कर्म्मग्रन्थिमनन्तशः - अनन्तां वारां प्राप्तम्, आगमोऽयमिति गाथार्थः ॥ ३५ ॥ न चैत|द्भेदत इति - जातावेकवचनं न चैतद्भेदेभ्यः - उत्कृष्ट स्थिति ग्रन्थ्यपान्तरालवर्त्तिभ्यः तदन्यत्कर्म्म, ततश्चैतदन्तर्गतेनैवानेन भाव्यम्, एतच्च अत्र व्यतिकरे चरितार्थ - निष्ठितप्रयोजनं इत्यर्थः । कुत इत्याह- सकृद्भावाद् अनादिमता कालेन बहुधा - प्राप्तेः, एवं सति सम्यक्त्वं कथं कालभेदेन - अतीतादिना ?, उक्तवत्तत्त्वतो हेत्वविशेषादिति गाथार्थः ॥ ३६ ॥ अत्रोत्तरमाह - किमन्येन हेतुनाऽत्र १, तत एव श्रुतधर्म्मात् प्राय ' इदं' सम्यक्त्वं भवति, औपशमिकव्यवच्छेदार्थ प्रायोग्रहणं, यच्च कालभेदेनैतदतीतादिना भवति 'अत्रापि' कालभेदेन भवने 'तक एव' श्रुतधर्म एव हेतु:, अत्राह - नन्वसौ - श्रुतधर्म्मः प्राप्तः पुरा 'बहुधा ' अनेकश इति गाथार्थः ॥ ३७ ॥ एतदेव स्पष्टयन्नाह - सर्वजीवानामेव सांव्यवहारिकराश्यन्तर्गतानां 'यद्' यस्मात् 'सूत्रे' प्रज्ञापनादौ ग्रैवेयकेषु नवस्वप्युपपातो भणितः, तन्मुक्तशरीराणामानन्त्याभिधानात्, न चासौ - उपपातः एतल्लिङ्गं जिनप्रणीतं मुक्त्वा, यतो भणितमागमज्ञः पूर्वसूरिभिरिति गाथार्थः ॥ ३८ ॥ किं तदित्याह - ये 'व्यापन्नदर्शना' निह्नवादयः 'लिङ्गग्रहणं कुर्वन्ति' प्रतिदिनं रजोहरणादिधारणमनुतिष्ठन्ति, न क्रीडया, अपि तु 'श्रामण्ये' श्रमणभावविषयं ( ये ) स्वबुद्ध्या, तेषामपि च अपिशब्दादनादिमिथ्यादृष्टीनामपि च उपपात 'उत्कृष्टः' सर्वोत्तमो यावद्
For Private & Personal Use Only
श्रुतधर्मात् सम्यक्त्वं
॥ १५५ ॥
ainelibrary.org