________________
Jain Educat
चिरप्रत्रजितं वन्दते 'अर्हन्' केवली यावद्भवत्यनभिज्ञः स चिरप्रत्रजितः, जानानो धर्मतामेनां - व्यवहारगोचरामिति गाथार्थः ॥ १६ ॥ यद्येवं कः प्रकृतोपयोग इत्याह- अत्र तु जिनवचनाद् ' ' भासन्तो होती' त्यादेः सूत्रात् सूत्राशातनायां दोषबहुलत्वात् कारणाद् भाषमाणज्येष्ठस्यैव कर्त्तव्यं भवति ' कृतिकर्म्म ' वन्दनं नेतरस्येति गाथार्थः ॥ १७ ॥ व्याख्येयमाह
वक्खाणेअवं पुण जिणवयणं णंदिमाइ सुपसत्थं । जं जम्मि जम्मि कालेजावइअं भावसंजुत्तं ॥ १०९८॥ सिस्से वा णाऊणं जोग्गयरे केइ दिट्टिवायाई । तत्तो वा निजूढं सेसं ते चेत्र विअरंति ॥ १०९९ ॥
व्याख्यानयितव्यं पुनस्तेन जिनवचनं, नान्यत्, नन्द्यादि सुप्रशस्तं - संवेगकारि यत् यस्मिन् यस्मिन् काले यावत प्रचरति भावसंयुक्तं ' भावार्थसारमिति गाथार्थः ॥ १८ ॥ शिष्यान् वा ज्ञात्वा योग्यतरान् कांश्चन दृष्टिवादादि, व्याख्यानयितव्यम्, ततो वा-दृष्टिवादादेः ' निर्व्यूढम् 'आकृष्टं शेषं नन्द्यादि, त एव योग्याः वितरन्ति - तदन्येभ्यो ददतीति गाथार्थः ॥ १९ ॥ निर्व्यूढलक्षणमाह
सम्मं धम्मविसेसो जहिअं कसछेअतावपरिसुद्धो । वणिज्जइ निजूढं एवंविहमुत्तमसुआइ ॥ १०२० ॥ | पाणवहाईआणं पावट्टाणाण जो उ पडिसेहो । झाणज्झयणाईणं जो अ विही एस धम्मकसो ॥१०२१॥
For Private & Personal Use Only
w.jainelibrary.org