SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगा नुज्ञा ४ ॥ १५० ॥ Jain Education याद्यनेकनयार्थप्रधानमिति गाथार्थः ॥ ९५ ॥ भगवति सर्वज्ञे तत्प्रत्ययकारिता - सर्वज्ञ एवमाहेत्येव, गम्भीरसारभणितिभिः, न तुच्छग्राम्योक्तिभिरिति संवेगकरं नियमाच्छ्रोतॄणामौचित्येन व्याख्यानं भवति कर्त्तव्यं, नान्यथेति गाथार्थः ॥ ९६ ॥ एतदेवाह - भवन्ति तु 'विपर्यये' अन्यथाकरणे दोषा अत्र, कुत इत्याह- एतद्विपर्ययादेव कारणात्, 'तत्' तस्मादुपसम्पन्नानां सतां शिष्याणामेव यथोक्तबुद्धिमान् कुर्यात् व्याख्यानमिति गाथार्थः ॥ ९७ ॥ कालादन्यथाकरणे अदोषाशङ्कां परिहरन्नाह - कालोऽवि वितहकरणे णेगतेणेह होइ सरणं तु । णहि एअम्मिवि काले विसाइ सुहयं अमंत जुअं॥९९८॥ एत्थं च वितहकरणं नेअं आउट्टिआउ सव्वंपि । पावं विसाइतुलं आणाजोगो अ मंतसमो ॥ ९९९ ॥ ता एअम्मिवि काले आणाकरणे अमूढलक्खेहिं । सत्तीए जइअव्वं एत्थ विही हंदि एसो आ॥ १०००॥ कालोऽपि 'वितथकरणे' विपरीतकरणे नैकान्तेनेह - प्रक्रमे भवति शरणमेव, कुत इत्याह- नह्येतस्मिन्नपि काले - दुष्पमालक्षणे विषादि प्रकृतिदुष्टं सत् सुखदममन्त्रयुतं तु भवतीति गाथार्थः ॥ ९८ ॥ अत्र च प्रक्रमे वितथकरणं ज्ञेयं आकु किया - उपेत्यकरणेन सर्वमपि 'पाप' निन्द्यं विषादितुल्यं, विपाकदारुणत्वाद्, 'आज्ञायोगश्च' सूत्रव्यापारश्च अत्र मन्त्रसमः, तद्दोषापयनादिति सूत्रार्थः ॥ ९९ ॥ उपसंहरन्नाह - यस्मादेवं तस्मादेतस्मिन्नपि काले - दुष्पमारूपे 'आज्ञाकरणे' सौत्रविधिसम्पादने अमूढलक्षैः सद्भिः शक्त्या यतितव्यमुपसम्पदादौ, अत्र विधिरेष व्याख्यानकरणे, हन्दीत्युपदर्शने, एष च वक्ष्यमाणलक्षण इति गाथार्थः ॥ १००० ॥ For Private & Personal Use Only व्याख्यान विधि रपवादाभावश्व ॥ १५० ॥ w.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy