________________
मिति गाथार्थः ॥ ६९ ॥ परमश्चैषः - जिनवचनप्रयोगः हेतुः केवलज्ञानस्य, अवन्ध्य इत्यर्थः कुत इत्याह- अन्यप्राणिनां मोहापनयनात्, परार्थकरणात् तथा संवेगातिशयभावेन उभयोरपीति गाथार्थः ॥ ७० ॥
एवं
वूडं अणुओगविसज्जणट्ट उस्सग्गो । कालस्स पडिकमणं पवेअणं संघविहिदाणं ॥ ९७९ ॥ एवमुपबृंह्य तमाचार्यमनुयोगविसर्जनार्थमुत्सर्गः क्रियते, कालस्य प्रतिक्रमणं तदन्वेव, प्रवेदनं निरुद्धस्य, सङ्घविअधिदानं यथाशक्ति नियोगत इति गाथार्थः ॥ ७१ ॥
पच्छाय सोऽणुओगी पवयणकज्जम्मि निञ्च्चमुजुत्तो । जोगाणं वक्खाणं करिज्ज सिद्धंत विहिणा उ ॥ ९७२ ॥ मज्झत्था बुद्धिजुआ धम्मत्थी ओघओ इमे जोगा ।
तह चैव पयत्थाई (य पत्ताई ) सुत्तविसेसं समासज्ज ॥ ९७३ ॥
पश्चाच्चासावनुयोगी-आचार्यः प्रवचनकार्ये नित्यमुद्युक्तः सन् योग्येभ्यो विनेयेभ्यो व्याख्यानं कुर्यादित्याज्ञा सिद्धान्तविधिनैवेति गाथार्थः ॥ ७२ ॥ योग्यानाह - ' मध्यस्थाः ' सर्वत्रारक्तद्विष्टा: ' बुद्धियुक्ताः ' प्राज्ञाः 'धर्म्मार्थिनः ' परलोकभीरवः ' ओघतः ' सामान्येनैते योग्याः सिद्धान्तश्रवणस्य तथैव प्राप्तादयो योग्याः, आदिशब्दात्परिणामकादिपरिग्रहः, ' सूत्रविशेषम्' अङ्गचूडादिरूपं समाश्रित्येति गाथार्थः ॥ ७३ ॥ मध्यस्थादिपदानां गुणानाह - मज्झत्थाऽसग्गाहं एत्तोच्चि कत्थई न कुवंति । सुद्धासया य पायं होंति तहाऽऽसन्नभवाय ॥ ९७४ ॥
Jain Education International
For Private & Personal Use Only
jainelibrary.org