SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगानुज्ञा ४ ॥ १४६ ॥ Jain Education दत्त्वा उत्तिष्ठति निषद्यायाः आचार्य अत्रान्तरे, तत्रोपविशति शिष्योऽनुयोगी, ततो वन्दते गुरुस्तं शिष्यसहितः, | शेषसाधुभिः सन्निहितैरिति गाथार्थः ॥ ६४ ॥ भणति च कुरु व्याख्यानमिति तमभिनवाचार्य, तत्र स्थित एव ततोऽसौ करोति तद्व्याख्यानमिति, नन्द्यादि यथाशक्त्येति, तद्विषयमित्यर्थः, पर्षदं वा ज्ञात्वा योग्यमन्यदपीति गाथार्थः ॥ ६५ ॥ आचार्यनिषद्यायामुपविशनमभिनवाचार्यस्य, वन्दनं च तथा गुरोः प्रथममेवाचार्यस्य, तुल्यगुणख्यापनार्थ लोकानां न तदा दुष्टं 'द्वयोरपि ' शिष्याचार्ययोः, या (जी) तमेतदिति गाथार्थः ॥ ६६ ॥ वन्दंते ततः साधवः व्याख्यानसमनन्तरं, उत्तिष्ठति च ततः पुनर्निषद्यायाः अभिनवाचार्यः, तत्र निषद्यायां निषीदति च गुरुमलः, उपबृंहणमत्रा - न्तरे, प्रथममन्ये तु व्याख्यानादाविति गाथार्थः ॥ ६७ ॥ धण्णो सि तुमं णायं जिणवयणं जेण सव्वदुक्खहरं । ता सम्ममिअं भवया पउंजियवं सया कालं ॥ ९६८ ॥ | इहरा उ रिणं परमं असम्मजोगो अजोगओ अवरो । ता तह इह जइअवं जह एत्तो केवलं होइ ॥ ९६९ ॥ परमो अ एस हेऊ केवलनाणस्स अन्नपाणीणं । मोहावणयणओ तह संवेगाइसयभावेण ॥ ९७० ॥ धन्योऽसि त्वं सम्यग्ज्ञातं जिनवचनं येन भवता ' सर्वदुःखहरं ' मोक्षहेतुः, तत्सम्यगिदं भवता - प्रवचननीत्या - प्रयोक्तव्यं ' सदा सर्वकालमनवरतमिति गाथार्थः ॥ ६८ ॥ इतरथा ऋणं परममेतत्, सदाऽप्रयोगे सुखशीलतया, असम्यग्योगश्चायोगतोऽप्यपरः - पापीयान् द्रष्टव्यः, तत् तथेह यतितव्यमुपयोगतो यथाऽतः केवलं भवति - परमज्ञान For Private & Personal Use Only नव्याचार्यप्रशंसा ॥ १४६ ॥ jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy