________________
श्रीपञ्चव अनुयोगानुज्ञा ४
॥ १४४ ॥
धः शेषाणामपि सिद्धान्तानां करोति, तथाविधलोकं प्रति सिद्धान्तमिति गाथार्थः ॥ ४८ ॥ तथा-अविनिश्चितः समये न सम्यगुत्सर्गापवादज्ञो भवति सर्वत्रैव, ततश्चाविषयप्रयोगतोऽनयोः - उत्सर्गापवादयोस्तथाविधः स्वपरविनाशको नियमात्, कूटवैद्यवदिति गाथार्थः ॥ ४९ ॥ ' तत् ' तस्मात्तस्यैव-अधिकृतानुयोगधारिणो हितार्थं परलोके तथा तच्छिष्याणां भाविनाम अनुमोदकानां च तथाविधाज्ञप्राणिनां तथाऽऽत्मनश्च हितार्थ आज्ञाराधनेन धीरो गुरुः योग्याय विनेयाय अनुजानाति ' एवं ' वक्ष्यमाणेन विधिनाऽनुयोगमिति गाथार्थः ॥ ५० ॥
| तिहिजोगम्मि पसत्थे गहिए काले निवेइए चैव । ओसरणमह णिसिज्जारयणं संघट्टणं चैव ॥ ९५१ ॥ | तत्तो पवेइआए उवविसइ गुरू उ णिअनिसिजाए। पुरओ अ ठाइ सीसो सम्ममहाजायउवकरणो ॥ ९५२ ॥
तिथियोगे प्रशस्ते सम्पूर्ण शुभादौ गृहीते काले विधिना निवेदिते चैव गुरोः समवसरणम्, अथ निषद्यारचनम्, उचितभूमावक्षगुरुनिषद्याकरणमित्यर्थः, 'सङ्घट्टनं चैव' अनिक्षेप इति गाथार्थः ॥ ५१ ॥ ' ततः तदनन्तरं रचकेन साधुना 'प्रवेदितायां' कथितायां वसत्यामुपविशति गुरुः- आचार्य एव न शेषसाधवः, क्वेत्याह- निजनिषद्यायां या तदर्थमेव रचितेति, पुरतश्च शिष्यः तिष्ठति प्रक्रान्तः सम्यग् - असम्भ्रान्तः 'यथाजातोपकरणों' रजोहरणमुखवस्त्रिकादिधर इति गाथार्थः ॥ ५२ ॥
पेर्हिति तओ पोत्तिं तीए अ ससीसगं पुणो कायं । बारस वंदण संदिस सज्झायं पट्टवामोति ॥ ९५३ ॥
Jain Education &ational
For Private & Personal Use Only
निश्चितसूत्रार्थता अनुयोग विधिः
॥ १४४ ॥
vjainelibrary.org