________________
R
ECOGNOREOGRAM
भवत्यवज्ञेति, कथं क्वेत्यत्राह-प्रवचनधरोऽयमितिकृत्वा 'तस्मिन् ' प्रवचने, 'इय' एवं प्रवचनखिसा इह ज्ञेया, अहो असारमेतद् यदयमेतदभिज्ञः सन्नेवमाहेति गाथार्थः॥ ३९ ॥ द्वारम् ॥
सीसाण कुणइ कह सो तहाविहो हंदि नाणमाईणं । अहिआहिअसंपत्तिं संसारुच्छेअणिं परमं ?॥९४०॥ हूँ है अप्पत्तणओ पायं हेआइविवेगविरहओ वावि। नहु अन्नओवि सोतं कुणइ अमिच्छाभिमाणाओ॥९४१॥ तोतेऽवि तहाभूआकालेणवि होति नियमओ चेव।सेसाणवि गुणहाणी इअ संताणेण विन्नेआ ॥९४२॥
'शिष्याणा'मिति शिष्येषु करोति कथमसौ तथाविधः अज्ञः सन् 'हन्दी' त्युपप्रदर्शने ज्ञानादीनां गुणानां-ज्ञानादिगुणानामधिकाधिकसंप्राप्ति, वृद्धिमित्यर्थः, किम्भूतामित्याह-संसारोच्छेदिनी सम्प्राप्तिं 'परमां' प्रधानामिति गाथार्थः॥४०॥
तथा-'अल्पत्वात्' तुच्छत्वात् कारणात् 'प्रायो' बाहुल्येन, न हि तुच्छोऽसती गुणसम्पदमारोपयति, तथा हेयादिविवेकविरपाहतो वाऽपि, हेयोपादेयपरिज्ञानाभावत इत्यर्थः, न ह्यन्यतोऽपि-बहुश्रुतादसौऽज्ञस्ता प्राप्तिं करोति तेषु, कुत इत्याह
'मिथ्याभिमानाद्' अहमप्याचार्य एव कथं मच्छिष्या अन्यसमीपे शृण्वन्तीत्येवंरूपादिति गाथार्थः॥४१ ॥ ततस्तेऽपि5 शिष्याः तथाभूता-मूर्खा एव कालेन वहुनापि भवन्ति नियमत एव, विशिष्टसम्पर्काभावात् , शेषाणामपि-अगीतार्थशिष्यसत्त्वानां गुणहानिः 'इय' एवं 'सन्तानेन' प्रवाहेन विज्ञयेति गाथार्थः॥ ४२ ॥ द्वारम् ॥
Jain Education
a
l
For Private
Personal Use Only