________________
श्रीपञ्चव. उपस्थापनावस्तु ३
॥ १४० ॥
Jain Education
सूत्रे भणितं भावमङ्गीकृत्य क्रमभवनममीषामिति गाथार्थः ॥ १८ ॥ एतदेवाह – सम्यक्त्वे लब्धे ग्रन्थिभेदेन भावरूपे पल्योपमपृथक्त्वेन, तथाविधेन कर्म्मस्थितेरपगमेन, श्रावको भवति, भावतो देशविरत इत्यर्थः, 'चारित्रोपशमक्षयाणां' सर्वचारित्रोपशमश्रेणिक्षपकश्रेणीनां सागरोपमाणि सङ्ख्येयान्यन्तरं भवति, प्राक्तनश्कर्म्मस्थितेः सङ्ख्येयेषु सागरोपमेषु क्षीणेषु भावत उत्तरोत्तरलाभो भवतीति गाथार्थः ॥ १९ ॥ एवमप्रतिपतिते सम्यक्त्वे सति देवमनुजजन्मसु संसरतो भवति अन्यतरश्रेणिवर्जम्, एकजन्मनि तदुभयाभावाद्, एकभवेन वा कर्म्मविगमापेक्षया, तथैव 'सर्वाणि' सम्यक्त्वादीनीति गाथार्थः ॥२०॥ प्रकृतयोजनामाह-नैवम् उक्तेन प्रकारेण चरणाभावे सति मोक्ष इति, प्रतीत्य भावचरणमेव यथोदितं, ' द्रव्यचरणे' पुनः प्रव्रज्याप्रतिपत्त्यादिलक्षणे 'भजना' कदाचिद् भवति कदाचिन्न, कथमित्याह - सोमादीनामन्तकृत्केवलिनामभावात्, सोमेश्वरकथानकं प्रकटमिति गाथार्थः ॥ २१ ॥ तेषामपि च तत्तत्पूर्वकमेवेत्येतदाह
‘तेषामपि’ सोमादीनां भावचरणं 'तथाविधं' झटित्येवान्तकृत्के व लित्वफलदं 'द्रव्यचरणपूर्वं तु' उपस्थापनादिद्रव्यचारिपूर्वमेव 'अन्यभवापेक्षया' जन्मान्तराङ्गीकरणेन विज्ञेयम्, उत्तमत्वेन हेतुना, उत्तममिदं न यथाकथञ्चित्प्राप्यते इति | गाथार्थः ॥ २२ ॥ एतदेव स्पष्टयन्नाह - तथाऽन्तकृत्केवलिफलदं चरमशरीरत्वमने कभव कुशलयोगतः - अनेकजन्मधर्म्माभ्यासेन 'नियमात् ' नियमेन प्राप्यते, किमित्येवमित्याह - 'यद् ' यस्मात् 'मोहः' असत्प्रवृत्तिहेतुः अनादिमानितिकृत्वाऽभ्यासतः सात्मीभूतत्वाद् दुर्विजयः, नाल्पैरेव भवैर्जेतुं शक्यत इति गाथार्थः ॥ २३ ॥ अत्राह
tional
For Private & Personal Use Only
केवलदशानपक्षनि रास
॥ १४० ॥
jainelibrary.org