SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ह्यतां चैव चिन्तयेदिति गाथार्थः ॥ ८३ ॥ तथा - जात्यादिगुणविभूषितवरधवनिरपेक्षतां च भावयेत्, धवो भर्त्ता, तस्यैव चातिनिकृतिप्रधानतां चैव पापस्य, निष्कृतिः - मायेति गाथार्थः ॥ ८४ ॥ एतदेवाह - चिन्तयति कार्यमन्यत् चेतसा, अन्यत्संस्थापयते क्रियया, भाषतेऽन्यद्वाचा, 'प्रारभते' करोत्यन्यत्, मुहुः प्रारब्धत्यागेन, सर्वथा मातृग्रामो 'निकृतिसारः' मायाप्रधान इति गाथार्थः ॥ ८५ ॥ तथा-तस्यैव च मातृग्रामस्य 'भूयः' पुनः २ प्रकृत्या नीचगामित्वमनुत्तमत्वात्, सदासौख्य मोक्षप्रापक सद्ध्यानरिपुत्वं ध्यायेत्, तथेदं वक्ष्यमाणमिति गाथार्थः ॥ ८६ ॥ तस्यैवात्युग्रपरमसन्तापजनक नरकानलैकहेतुत्वं भावयेत्, 'ततश्च' मातृग्रामाद्विरक्तानामिहैव प्रशमादिलाभगुणान् भावयेदिति गाथार्थः ॥ ८७ ॥ 'परलोके च' आगामिजन्मादिरूपे 'सदा' सर्वकालं 'तद्विरागबीजादेव' मातृग्रामविरागकारणादेव भावयेत् किमित्याह - शारीरमानसानेकदुःख मोक्षं, सकलदुःखक्षयरूपमित्यर्थः किमित्याह - 'सुमोक्षं ( सौख्यं ) च' अभावरूपादिव्युदासेन निरुपम सुखरूपमिति गाथार्थः ॥ ८८ ॥ भावनागुणमाह- भावयत 'इदम्' अनन्तरोदितं तत्त्वं 'गाढं संवेगशुद्धयोगस्य' अत्यन्तं संवेगेन शुद्धव्यापारस्य, किमित्याह - क्षीयते क्लिष्टकर्म, अशुभमित्यर्थः, चरणविशुद्धिस्ततःक्लिष्टकर्मक्षयानन्तरं 'नियमात्' नियमेनेति गाथार्थः ॥ ८९ ॥ इहैव व्यापकं विधिमाहजो जेणं बाहिज्जइ दोसेणं चेयणाइविसरणं । सो खलु तस्स विवक्खं तविसयं चैव भाविज्जा ॥८९०॥ अत्थम्मि रागभावे तस्सेव उवज्जणाइसंकेसं । भाविज्ज धम्महेउं अभावमो तह य तस्सेव ॥ ८९१ ॥ Jain Education national For Private & Personal Use Only lainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy