SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. उपस्थापनावस्तु ३ भावनाहे. तुःभावना ८७५-८९ ॥१३५॥ सम्यग् भावयितव्यानि सूत्रानुसारत इत्यर्थः, 'अशुभमनोहस्त्यङ्काशसमानि' अकुशलपरिणामहस्त्यङ्कुशतुल्यानि, तथा विषयविषागदभूतानि,अगदा-परमौषधरूपः,नवरं स्थानान्येतानि-वक्ष्यमाणलक्षणानि भावयितव्यानीति गाथार्थः॥७६॥ विजने देशे श्मशानादिषु स्थितेन, आदिशब्दादारामादिपरिग्रहः, गीतार्थसाधुसहितेन, नैकाकिना, भावयितव्यं, 'प्रथमम्' आदावेव अस्थिरत्वं जीवलोकस्य सर्वत्राऽऽस्थाविघातीति गाथार्थः ॥ ७७ ॥ जीवितं यौवनं ऋद्धिः-सम्पत् प्रियसंयोगादि, आदिशब्दादप्रियत्वादिपरिग्रहः, अस्थिरं सर्वमेतत् , किम्भूतमित्याह-विषमखरमारुताहतकुशाग्रजलबिन्दुना सदृशम् , अतीवास्थिरमिति गाथार्थः॥७८ ॥ 'विषयाश्च' शब्दादयो 'दुःखरूपाः' सम्मोहनाः विषयवतां, तथा चिन्ताऽऽयासबहुदुःखसञ्जननाः, तदन्वेव तथानुभवनात् , तथा मायेन्द्रजालसदृशाः तुच्छाः, किम्पाकफलोपमाः 'पापा' विर-1 सावसाना इति गाथार्थः॥ ७९ ॥ एवं भावनान्तरं ततश्च 'मातृग्रामस्य' स्त्रीजनस्य 'निदान' निमित्तं रुधिरादि, आदिशब्दाच्छुकादिपरिग्रहः, रक्तोत्कटा स्त्रीत्येवमुपन्यासः, 'भावयेदि'त्येतदभ्यस्येत् , तथा कलमलकमांसशोणितपुरीषपूर्ण च कंकालं भावयेदिति गाथार्थः ॥ ८० ॥ तस्यैव च मातृग्रामस्य समरागाभावं, नहि प्रायेण समा प्रीतिर्भवतीति प्रतीतमेतत् , सति तस्मिन् समरागे तथा 'विचिन्तयेत्' भावयेत् , किमित्याह-सन्ध्याकाणामिव 'सदा' सर्वकालं 'निसगैचलरागतां चैव' प्रकृत्याऽस्थिररागतामिति गाथार्थः॥८१॥ असदारम्भाणां तथा-प्राणवधादीनां सर्वेषां लोकगहणीयानां, जघन्यानामित्यर्थः, 'परलोकवैरिणाम्' अन्यजन्मशत्रूणां कारणतां चैव यत्नेन मातृग्रामस्य चिन्तयेदिति |गाथार्थः॥ ८२॥ तस्यैव च मातृग्रामस्य अनिलानलभुजङ्गेभ्योऽपि पार्श्वतः सम्यक् प्रकृतिदुर्गाह्यस्य च मनसो दुर्गा ॥१३५॥ in Education intomi For Private Personal use only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy