________________
XXXCX
मेव हन्दि मोक्षस्य हेतुरिति योगः1, नैवेत्यभिप्रायः, किंभूतानामित्याह-'अतिचाराश्रयभूतानां' प्रभूतातिचारवता-1 मिति गाथार्थः ॥ ६७ ॥ मार्गानुसारिणं विकल्पमाह-एवं च घटते एतद्-अनन्तरोदितं, प्रपद्य यश्चिकित्सां कुष्ठादेरतिचारं-तद्विरोधिनं, किमित्याह-सूक्ष्ममपि करोति स खलु तस्यातिचारः विपाकेऽतिरौद्रो भवति, दृष्टमेतद्, एवं दान्तिकेऽपि भविष्यतीति गाथार्थः॥१८॥ अतिचारक्षपणहेतुमाह-प्रतिपक्षाध्यवसानं क्लिष्टाच्छुद्धं तुल्यगुणमधिकगुणं वा प्रायेण 'तस्य' अतिचारस्य क्षपणहेतुरपि, यदृच्छापि क्वचिदिति प्रायोग्रहणं, नालोचनामानं तथाविधभावशून्यं, कुत इत्याह-'तेषामपि' ब्राहयादीनां प्राणिनामोघेन-सामान्येन 'तदावाद' आलोचनादिमात्रभावादिति गाथार्थः ॥ ६९॥ एवं प्रमत्तानामपि साधूनां 'प्रत्यतिचारम अतिचारं २ प्रति विपक्षहेतूनां-यथोक्ताध्यवसानानां आसेवने सति |न दोषः, अतिचारक्षयात् , इत्येवं धर्माचरणं यथाभिहितं शुद्धत्वात् मोक्षस्य हेतुरिति गाथार्थः ॥ ७० ॥ अत्रैवैदंपर्यमाह-सम्यकृतप्रतीकारमगदमन्त्रादिना बह्वपि विष न मारयति यथा भक्षितं सत्, स्तोकमपि च 'विपरीतम्' अकृतप्रतीकारं मारयति एषोपमा अत्र-अतिचारविचार इति गाथार्थः॥ ७१ ॥ विपक्षमाह-ये प्रतीकारविरहिताः अतिचारेषु प्रमादिनो द्रव्यसाधवः तेषां पुनस्तदू-धर्माचरणं 'यथोदितं' चिन्त्यं न भवतीत्यर्थः, एतदेव स्पष्टयति-दुर्गृहीतशरोदाहरणात्, शरो यथा दुहीतो हस्तमेवावकृन्तति, 'श्रामण्यं दुष्परामृष्टं, नरकानुपकर्षती' त्यस्मादनिष्टफलमप्येतद्-धम्मे
चरणं द्रव्यरूपं भणितं मनीषिभिरिति गाथार्थः ॥ ७२ ॥ एतदेव सामान्येन द्रढयन्नाह-क्षुद्रातिचाराणामेवीघतो धम्मसूसम्बन्धिना मनुष्यादिष्वशुभफलं ज्ञेयं, स्त्रीत्वदारिद्यादि, आदिशब्दात् तथाविधतियपरिग्रहः, 'इतरेषां पुनः' महाति-15
Jain Educati
o
n
For Private Personal Use Only