________________
श्रीपञ्चव.
उपस्थापनावस्तु ३
॥ १३२ ॥
Jain Educate
*२०
| अभितरं तु पायं सिद्धं सबेसिमेव उ जईणं । एअस्स अकरणं पुण पडिसिद्धं सवभावेण ॥ ८६४॥ दारं 'एतेन' अनन्तरोदितेन अनशनादेः शुभभावहेतुत्वेन यदपि केचन वाला भगन्तीति योगः किमित्याह - नानशनादि दुःखमितिकृत्वा 'मोक्षाङ्ग' मोक्षकारणं, कुत इत्याह- कर्म्मविपाकत्वात् कारणमपि, कर्म्मवदिति, एतदपि 'प्रतिषिद्धं निराकृतमेवावसेयमिति, गाथार्थः ॥ ५६ ॥ एतदेव स्पष्टयति- 'यद्' यस्माद् 'इय' एवमुक्तेन प्रकारेण 'इदम्' अन शनादि 'न दुःखं' न दुःखहेतुः, तथा कर्म्मविपाकफलमपि, सर्वथा साक्षात्कारित्वेन, नैवमनशनादि, कुत इत्याह- क्षायो| पशमिकभावे जीवस्वरूपे 'एतदि'ति भावतोऽनशनादि 'जिनागमे भणितं वीतरागवचने पठितमिति गाथार्थः ॥ ५७ ॥ एतदेव प्रकटयन्नाह - क्षान्त्यादिसाधुधम्र्मे “खंती य मद्दवऽज्जव मुत्ती तव संजमे अवोद्धधे । सच्चं सोयं आकिंचणं च वंभं च जइधम्मो ॥ १ ॥ "त्ति तस्मिंस्तपोग्रहणमस्ति स च साधुधर्म्मः क्षायोपशमिके भावे निर्दिष्टः, चारित्रधर्म्मत्वात्, दुःखं चौदयिक एव सर्वं विनिर्दिष्टं भगवद्भिः, असातोदयात्मकत्वादिति गाथार्थः ॥ ५८ ॥ कर्म्मविपाकत्वादिति च यदुतमत्राह-न च कर्मविपाकोऽपि सामान्येन सर्व एव 'सर्वथा ' पारम्पर्यादिभेदेनापि मोक्षाङ्गं, किन्तु मोक्षाङ्गमपि, कथमि त्याह- 'शुभसम्बन्धी' कुशलानुबन्धिनिरनुबन्धकर्म्मसम्बन्धी यस्मादिष्यते 'एषः' कर्म्मविपाकः 'समये' सिद्धान्ते मोक्षाङ्गमिति गाथार्थः ॥ ५९ ॥ एतदेव स्पष्टयन्नाह ये केचन सामान्येन 'महापुरुषा' वलदेवतीर्थकरादयः, किम्भूता इत्याह'धर्म्माराधन सहाः ' चारित्राराधन समर्थाः, इह लोके जम्बूद्रीपादौ ते किमित्याह - 'कुशलानुबन्धिकर्मोदयादितः कुशलानुबन्धिनिरनुबन्धिकम्र्मोदयादित्यर्थः, ते विनिर्दिष्टाः समय इति गाथार्थः ॥ ६० ॥ एतदेव व्यतिरेकेणाह - न कदाचित्
ational
For Private & Personal Use Only
तपसः क्षायोपशमि
कता ८५५-६४
॥ १३२ ॥
jainelibrary.org