________________
श्रीपञ्चवस्तु के.
॥ ५॥
Jain Educat
भत्तिबहुमाणसद्धा थिरया चरणम्मि होइ सेहाणं । एआरिसम्मि निअमा गुरुम्मि गुणरयणजलहिम्मि ॥ 'भक्ति बहुमानौ' इति भक्तिर्बाह्यविनयरूपा बहुमानो भावप्रतिबन्धः एतौ भवतः शिक्षकाणामभिनवप्रव्रजिताना| मिति योगः, क्वेत्याह 'ईदृशि' एवंभूते 'गुरौ' आचार्ये 'नियमात्' नियमेन पुनरपि स एव विशिष्यते - 'गुणरत्नजलधौ' गुणरत्नसमुद्र इति । ततः 'श्रद्धा स्थिरता' च 'चरणे भवति' इति; तथाहि - गुरुभक्ति बहुमानभावत एव चारित्रे श्रद्धास्थैर्य च भवति नान्यथा । इति गाथार्थः ॥ १५ ॥ गुणान्तरमाह -
अणुवत्तगो एसो हवइ दढं जाणई जओ सत्ते । चित्ते चित्तसहावे अणुवत्ते तह उवायं च ॥ १६ ॥
'अनुवर्त्तकश्च एषो' ऽनन्तरोदितो गुरुर्भवति, 'दृढ' अत्यर्थ, कुत इत्याह- 'जानाति यतः सत्त्वान्' प्राणिनः 'चित्रान्' अनेकरूपान् 'चित्रस्वभावान्' नानास्वभावान् 'अनुवर्त्त्यान्' इत्यनुवर्त्तनीयान् 'तथोपायं च' अनुवर्त्तनोपायं च जानाति । इति गाथार्थः ॥ १६ ॥ अनुवर्त्तनागुणमाह
I
अणुवत्तणाए सेहा पायं पावंति जोग्गयं परमं । रयणंपि गुणक्करिसं, उवेइ सोहम्मणगुणेण ॥ १७ ॥ 'अनुवर्त्तनया' - करणभूतया 'शिक्षकाः ' 'प्रायो' बाहुल्येन कांकककल्पं विहाय 'प्राप्नुवन्ति योग्यताम्' अपवर्ग | प्रति 'परमां ' प्रधानां, स्यादेतत् योग्य एव प्रव्रज्याई इति किं गुरुणेत्येतदाशङ्कयाह - रत्नमपि' पद्मरागादि 'गुणोत्कर्ष'
१ दुःखासत्वम् इत्यपि पाठः ।
ational
For Private & Personal Use Only
प्रत्रज्या
विधानं १ द्वारम्.
॥ ५ ॥
www.jainelibrary.org