________________
RecordRACK
सइ तम्मि विवेगीवि हु साहेइ ण निअमओ नि कजं ।
किं पुण तेण विहूणो अदीहदरिसी अतस्सेवी ? ॥ ८४९ ॥ तम्हा उ अणसणाइवि पीडाजणगंपि ईसि देहस्स।बंभ व सेविअवंतवोवहाणं सया जइणा॥ ८५० ॥ | न 'अनशनादिविरहाद्' अनशनाद्यभावेन 'प्रायेण' बाहुल्येन त्यजति साम्प्रतं विशेषेण दुष्षमायां 'देहः' कायः, किं न त्यजतीत्याह-चितमांसशोणितत्वं, धातूद्रेकमित्यर्थः, यस्मादेवं 'तस्मादेतदपि' अनशनादि कर्तव्यं व्रतार्थिनेति गाथार्थः ॥ ४७ ॥ चितमांसशोणितदोषमाह-चितमांसशोणितस्य तु प्राणिनः, किमित्याह-अशुभप्रवृत्तेः कामविषयायाः कारणं 'परम' प्रधानं सञ्जायते 'मोहोदयः' क्लिष्टश्चित्तपरिणामः, कुत इत्याह-सहकारिविशेषयोगेन, चितमांसशोगणितत्त्वनिमित्तविशेषादिति गाथार्थः॥४८॥ विवेकादसौ न भविष्यतीति केचिदित्यत्राह-सति 'तस्मिन्' मोहोदये / विवेक्यपि सत्त्वः 'साधयति' निर्वर्त्तयति न 'नियमतः' अवश्यन्तया निजं कार्यम्-अशुभप्रवृत्तिनिरोधरूपं, किं पुनः 'तेन' विवेकेन विहीनः साधयिष्यति?, किम्भूतः -'अदीर्घदशी' अनालोचकः, क इत्याह-'अतत्सेवी' अनागतमेवानशनाद्यसेवी जड इति गाथार्थः ॥ ४९॥ यस्मादेवं-तस्मादनशनाद्यपि सूत्रोक्तं पीडाजनकमपीपदेहस्य, न चेतसः, किमिवेत्याह-'ब्रह्मवत्' ब्रह्मचर्यवत् सेवितव्यं तपउपधानं सदा 'यतिना' प्रव्रजितेनेति गाथार्थः ॥ ५० ॥ पराभिप्रायमाहसिअणो सुहासयाओ सुओवउत्तस्स मुणिअतत्तस्स।बंभंमि होइ पीडा संवेगाओ अभिक्खुस्त ॥८५१॥
Jain Education
For Private & Personal Use Only
www.jainelibrary.org