SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Jain Educa | दोन्नि तिहत्थायामा भिक्खट्टा एक एक उच्चारे । ओसरणे चउहत्था निसण्णपच्छायणे मसिणा ॥ ८३१ ॥ कमठगमानं स्वरूपसम्बन्धि 'उदरप्रमाणतो' निजोदरप्रमाणेन संयतीनां विज्ञेयं, सदा ग्रहणं पुनस्तस्य - कमठकस्य 'लहुसकदोषा' दिति अल्पत्वापराधाद् 'आसां' संयतीनां, लम्बनग्रहणेऽप्रीत्या अकुशल परिणामभावादिति गाथार्थः ॥ २४ ॥ अथवग्रहानन्तकं नौसंस्थितम् एतच्च गुह्यदेशरक्षणार्थं भवति, रक्षा च दर्शनस्य मोहोदयहेतुत्वात् तत्पुनः स्वरूपमानाभ्यां यथासङ्ख्यं घनमसृणं स्वरूपेण देहमाश्रित्य प्रमाणेन भवतीति गाथार्थः ॥ २५ ॥ पट्टोऽपि भवति 'तासा' संयतीनां, किंविशिष्ट इत्याह- देहप्रमाणेनैव भवति विज्ञेयः, प्रमाणमानेन, स्वरूपतस्तु छादयन्नवग्रहानन्तकं, कटिबन्धोऽसौ भवति मल्लकच्छेवेति गाथार्थः ॥ २६ ॥ अर्द्धरुकमपि 'तौ द्वावपि' अवग्रहानन्तकपट्टी 'गृहीत्वा' अवष्टभ्य छादयति कटिभागं, तथा जानुप्रमाणावलम्बनेन चलनी भवति, सा चासीविता स्वरूपतो लडिकाया इवेति गाथार्थः ॥ २७ ॥ अन्तर्निवसनी पुनल्लींना- सुश्लिष्टा, सा च कटिं यावदर्द्धजङ्घाभ्यामारभ्य, तथा बाह्या निवसनी यावत् खलुकः तावत् कट्यां दवरकेण प्रतिबद्धा भवतीति गाथार्थः ॥ २८ ॥ छादयत्यनुकुचितौ श्लथावित्यर्थः 'गण्डौ' स्तनौ पुनः कञ्चुकः असीवित इति, तथा एवमेवोत्कच्छिका छादयति, सा नवरं दक्षिणे पार्श्वे भवतीति गाथार्थः ॥२९॥ वेच्छिका तु पट्टो भवति सा तु कञ्चुकमुत्कच्छिकां च छादयन्ती भवति, तथा संघाव्यञ्चतस्रो भवन्ति, एका द्विहस्ता द्वे त्रिहस्ते एका चतुर्हस्ता, तत्र द्विहस्ता उपाश्रये भवति, न तां विहाय प्रकटदेहया कदाचिदासितव्यमिति गाथार्थः ॥ ३० ॥ द्वे त्रिहस्तायामे भवतः, तयोर्भिक्षार्थमेका एका उच्चारे भवति, भेदग्रहणं गोचराद्युपलब्धतुल्यवेपादिपरिहारार्थं, national For Private & Personal Use Only jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy