________________
स्वरूपेण पटलानि यावन्ति भवन्ति तावन्ति वक्ष्य इति गाथार्थः ॥ ३ ॥ ग्रीष्मेषु भवन्ति चत्वारि, प्रयोजनं पूर्ववत्, पञ्च हेमन्ते, प्रयोजनं पूर्ववदेव, पट् च वर्षासु प्रयोजनं पूर्ववत्, एतानि खलु मध्यमानि पटलान्येवं भवन्ति, तेषां प्रभूततराणामेव स्वकार्य साधनात्, 'अतस्तु' अत ऊर्द्ध जघन्यानि स्वरूपेण पटलानि यावन्ति भवन्ति तावन्ति वक्ष्यि गाथार्थः ॥४॥ ग्रीष्मेषु पञ्च पटलानि पट् पुनर्हेमन्ते सप्त वर्षासु, त्रयाणामपि प्रयोजनं पूर्ववत्, एवं त्रिविधे कालच्छेदे पात्रावरणानि भवन्ति पटलानि, समासप्रयोजनमेतदेतेषामिति गाथार्थः ॥ ५ ॥ उद्दिष्टसङ्ख्या भेदभावात् सङ्ख्यामानमभिधायैतेषामेव प्रमाणमानमाह
अड्डाइज्जा हत्था दीहा बत्तीसअंगुला रुंदा । बिइअं पडिग्गहाओ ससरीराओ उ निष्पन्नं ॥ ८०६ ॥
अर्द्धतृतीया हस्ता दीर्घाणि - आयतानि पत्रिंशदङ्गुलानि 'रुन्दानि' विस्तीर्णानि द्वितीयं पटलमानं 'प्रतिग्रहाद्' भाजनात् स्वशरीराच्च निष्पन्नम्, एतदुभयोचितमिति गाथार्थः ॥ ६ ॥ एतत्प्रयोजनमाह| पुप्फफलोदगरयरेणुसउणपरिहार एयरक्खट्टा । लिंगस्स य संवरणे वेओदयरक्खणे पडला ॥ ८०७ ॥ पुष्पफलोदकर जोरेणुशकुन परिहारः - काकादिपुरीषः एतद्रक्षार्थ, लिङ्गस्य च संवरणे - संरक्षणे स्थगने 'वेदोदयरक्षणे' स्त्रीपुंवेदोदयरक्षणविषये पटलान्युपयोगीनीति गाथार्थः ॥ ७ ॥ रजस्त्राणप्रमाणमाहमाणं तु रत्ताणे भाणपमाणेण होइ निष्कन्नं । पायाहिणं करितं मज्झे चउरंगुलं कमइ ॥ ८०८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org