________________
तोपधियोगेन, पात्रकोपधिः सप्तविधः द्विविधेन युक्तो नवविधः, एवं त्रिविधादिष्वपि योजनीयं, दशविध एकादशविधो द्वादशविध इति, आह च- यावत् द्वादशविधः उत्कृष्टो गणनाप्रमाणेनेति गाथार्थः ॥ ७८ ॥ स्थविरकल्पिकानधिकृत्याह - एए चेव दुवालस मत्तग अइरेग चोलपट्टो अ । एसो अ चोदसविहो उवही पुण थेरकप्पंमि ॥७७९ ॥ 'एत एव' अनन्तरोदिताः द्वादशोपधिभेदाः, के ते ?, पत्तं पत्तावन्धो पायट्टवणं च पायकेसरिया० भेदाः, मात्रकमतिरिक्तं चोलपट्टकश्च, एतद्द्वययुक्तः एष एव चतुर्द्दशविध उपधिः पुनः 'स्थविरकल्पे' स्थविरकल्पविषय इति गाथार्थः ॥ ७९ ॥ आर्या अधिकृत्याह -
पत्तं पत्ताबंधो पायट्टवणं च पायकेसरिआ । पडलाइँ रयत्ताणं गोच्छओ पायणिजोगो ॥ ७८० ॥ एए चेव उ तेरस अभिन्नरूवा हवंति विष्णेआ । उवहिविसेसा निअमा चोइसमे कमढए चेव ॥ ७८१ ॥ उग्गहणंतगपट्टो अड्डोरुअ चलणिआ य बोद्धव्वा । अभितर बाहिणिअंसणी अ तह कंचुए चेव ॥ ७८२ ॥ ओकच्छिअ वेकच्छिअ संघाडी चेव खंधकरणी अ । ओहोवहिम्मि एए अजाणं पण्णवीसं तु ॥७८३ ॥
पूर्ववत् ॥ ८० ॥ पूर्ववदेव, नवरं चतुर्दशं कमढगं चैवेति ॥ ८१ ॥ अवग्रहानन्तकपट्ट: अद्धरुकं चलनिका च बोद्धव्या, अभ्यन्तरनिवसनी बहिर्निवसनी च तथा कञ्चकश्चैवेति गाथार्थः ॥ ८२ ॥ उत्कक्षिका वैकक्षिका सङ्घाटी चैव स्कन्धकरणी च ओघोपधौ एते आर्याणां सम्बन्धिनि पञ्चविंशतिस्तु भेदा इति गाथार्थः ॥ ८३ ॥
Jain Educational
For Private & Personal Use Only
ainelibrary.org