________________
|॥ ४७॥ प्रामित्यं नाम यत् साधूनामर्थे उच्छिद्यान्यतः 'दियावेइ'त्ति ददाति । परावर्तितुं च गौरवादिभिः कोद्रवौदनादिना शाल्योदनादि यद् ददाति तत्परावर्तितं भणितमिति गाथार्थः ॥ ४८ ॥ स्वग्रामपरग्रामात् यदुग्राहिमकादि आनेतुं, ददातीति वर्तते, अभ्याहृतं तु तदेवंभूतं भवति । तथा छगणमृत्तिकादिनोपलिप्तमुद्भिद्य यद्ददाति तदुद्भिन्नमभिधीयत इति गाथार्थः॥ ४९ ॥ मालापहृतं तु भणितं तीर्थकरगणधरैः यन्मण्डकादि मालादिभ्यो ददाति गृहीत्वा, आदिशब्दात् अधोमालादिपरिग्रहः । आच्छेद्यं चाच्छिद्य यत्स्वामी भृत्यादीनां सम्बन्धि ददाति तद् भणितमिति, आदिशब्दात्कर्मकरादिपरिग्रह इति गाथार्थः ॥५०॥ अनिसृष्टं 'सामान्यम्' अनेकसाधारणं गोष्ठिकभक्कादि, आदिशब्दाच्छ्रेणिभकादि, ददत एकस्याननुज्ञातस्य । 'स्वार्थम्' आत्मनिमित्तं मूलाद्रहणे कृते सति साधुनिमित्तं मुद्गादिसेतिकादेः प्रक्षेपो|ऽध्यवपूरको भवतीति गाथार्थः ॥५१॥ अत्र विशोध्यविशोधिकोटिभेदमाह
कम्मुद्देसिअचरिमतिग पूइअं मीस चरिमपाहुडिआ।
अज्झोअर अविसोहिअ विसोहिकोडी भवे सेसा ॥७५२॥ 'कर्मे' त्याधाकर्म तथा औद्देशिकचरमत्रिक' मिति कम्मोद्देशिकस्य मोदकचूरीपुनःकरणादौ यच्चरमं त्रिकं पाखण्डिश्रमणनिर्ग्रन्थविषयं समुद्देशादि तथा पूर्ति भक्तपानलक्षणां तथा मिश्रजातं उक्तलक्षणं तथा 'चरमप्राभृतिका' बादर
Jain Education Desa
For Private & Personel Use Only
jainelibrary.org