________________
भक्ते घर
श्रीपञ्चव. संसग्गीए दोसा निअमादेवेह होइ अक्किरिया । लोए गरिहा पावे अणुमइमो तह य आणाई ॥७३७॥ उपस्थाप- | संसर्गात् संसक्तेर्वा, पार्श्वस्थादिभिः सहेति गम्यते, दोषा इमे नियमादेवेह, या च यावती च भवत्यक्रिया तदुपरोधेन, नावस्तु ३ तथा लोके गर्दा भवति-सर्व एवैते एवम्भूता इति, तथा पापेऽनुमतिर्भवति पार्श्वस्थादिसम्बन्धिनी(नि), तत्सङ्गमात्रनिमित्त॥११६॥
त्वादनुमतेः, तथा आज्ञादयश्च दोषा भवन्तीति गाथार्थः॥ ३७ ॥ साम्प्रतं भक्तविधिमाहभत्तंपिहु भोत्तत्वं सम्मं बायालदोसपरिसुद्धं । उग्गममाई दोसा ते अ इमे हंति नायवा ॥ ७३८ ॥ ___ 'भक्तमपि' ओदनादि भोक्तव्यं 'सम्यग्' आशंसारहितेन 'द्विचत्वारिंशद्दोषपरिशुद्धं' कल्पनीयम् , उद्गमादयो दोषा, अत्र गृह्यन्ते, ते चामी-वक्ष्यमाणलक्षणा भवन्ति ज्ञातव्या इति गाथार्थः॥ ३८॥ सोलस उग्गमदोसा सोलस उप्पायणाएँ दोसा उ। दस एसणाएँ दोसा बायालीसं इइ भवंती ॥७३९॥
षोडश उद्गमे दोषाः-आधाकर्मप्रभृतयः, षोडश उत्पादनायां दोषाः-धान्यादयः,दश पिण्डैषणायां दोषाः-शङ्कितादयः, द्विचत्वारिंशदेवं भवन्ति समुदिता इति गाथार्थः ॥ ३९॥ एतदेव भावयति
तत्थुग्गमो पसूई पभवो एमाइँ हुंति एगट्ठा । सो पिंडस्साहिगओ तस्स य भेया इमे होंति ॥७४०॥ 8. तत्रोद्गमः प्रसूतिः प्रभव एवमादयो भवन्त्ये कार्थाः शब्दाः, सः-उद्गमः पिण्डस्याधिकृतः तस्य च भेदा एते भवन्ति दो वक्ष्यमाणा इति गाथार्थः ॥ ४०॥
SPECIRCURRRRAR
॥११६॥
Jain Education
For Private Personal Use Only