________________
OILOSOHGROC
भावुगअभावुगाणि अलोए दुविहाणि होति दवाणि।वेरुलिओ तत्थ मणी अभावुगो अन्नवेहिं ॥७३४॥ जीवो अणाइनिहणो तब्भावणभाविओ असंसारे। खिप्पं सो भाविजइ मेलणदोसाणुभावेण॥७३५॥ अंबस्स य निंबस्स य दोण्हपि समागयाइं मूलाई । संसग्गीऍ विणट्ठो अंबो निंबत्तणं पत्तो ॥७३६॥ ___ भाव्यन्ते-प्रतियोगिना स्वगुणैरात्मभावमापाद्यन्त इति भाव्यानि-वेल्लुकादीनि प्राकृतशैल्या भावुकान्युच्यन्ते, अथवा प्रतियोगिनि सति तद्गुणापेक्षया तथा भवनशीलानि भावुकानि, 'लषपतपदस्थाभूवृषे' त्यादावुकताच्छीलिकत्वादिति, तद्विपरीतानि अभाव्यानि-वलनादीनि लोके द्विप्रकाराणि भवन्ति 'द्रव्याणि' वस्तूनि, वैडूर्यस्तत्र मणिः अभाव्योऽन्य द्रव्यैः-काचादिभिरिति गाथार्थः ॥ ३४॥ स्यान्मतिः-जीवोऽप्येवंभूत एव भविष्यति, न पार्श्वस्थादिसंसर्गेण तद्भावं यास्यतीति, एतच्च असद्, यतः-'जीवः' प्राग्निरूपितशब्दार्थः, स ह्यनादिनिधनः, अनाद्यपर्यन्त इत्यर्थः, 'तद्भावनाभावितश्च पावस्थाद्याचरितप्रमादादिभावनाभावितश्च 'संसारे' तिर्यग्नरनारकामरभवानुभूतिलक्षणे, ततश्च तद्भावनाभावितत्वात् 'क्षिप्रं' शीघ्रं स 'भाव्यते' प्रमादादिभावनया आत्मीक्रियते 'मीलनदोषानुभावेन' संसर्गदोषानुभावेनेति गाथार्थः ॥ ३५ ॥ अथ भवतो दृष्टान्तमात्रेण परितोषः ततो मद्विवक्षितार्थप्रतिपादकोऽपि दृष्टान्तोऽस्त्येव, शृणु-तिक्तनिम्बोदकवासितायां भूमावाम्रवृक्षः समुत्पन्नः, पुनस्तत्र आम्रस्य च निम्बस्य च द्वयोरपि 'समागते' एकीभूते मूले, ततश्च 'संसक्त्या' सङ्गत्या विनष्टः आयो निम्वत्वं प्राप्तः, तिक्तफलः संवृत्त इति गाथार्थः ॥ ३६ ॥ दोषान्तरोपदर्शनेन प्रकृतमेव समर्थयन्नाह
C ORRECAS
Jain Education
For Private & Personel Use Only
RTrjainelibrary.org