________________
विशेषणान्नाकाशादिभिरनेकान्तिकः, अथवा द्वितीयं प्रमाणं-सचेतना अन्तरिक्षभवा आपः, स्वाभाविकव्योमसम्भूतस
कायानां म्पातत्वात् , मत्स्यवत् । तथा सचेतनं तेजः, यथायोग्याहारोपादानेन वृद्धिविशेषतद्विकारवत्त्वात् , पुरुषवत् । तथा चेत | जीवत्वं नावान् वायुः, अपरप्रेरिततिर्यगनियमितदिग्गतिमत्त्वादू, गवादिवत् , तिर्यगेवेति अन्त ताववधारणात् परमाण्वादिभिरनैकान्तिकासम्भवः, तथा बकुलाशोकदाडिमानवीजपूरककूष्माण्डीकालिङ्गीत्रपुषीप्रभृतयो वक्ष्यमाणपक्षसम्बन्धिनो वन-11 स्पतिविशेषाश्चेतनाः जन्मजराजीवनमरणरोहणक्षताहारोपादानदौहुंदामयचिकित्सासम्बन्धित्वात् , यत्र यत्र जन्मजीवनादिमत्त्वमुपलभामहे तत्र तत्र चेतनत्वमपि, यथा वनितासु, यत्र यत्र चेतनत्वं नास्ति तत्र तत्र जन्मादिमत्त्वमपि नास्ति, यथा शुष्कतृणभस्मादिष्विति वैधर्म्यदृष्टान्तः, कदाचित्परस्याशङ्का-प्रत्येकमेते हेतव उपात्ता इत्यनै कान्तिकाः, तद्यथा-12 जन्मवत्त्वादिति केवलोऽनैकान्तिका पक्षधर्मः, अचेतनेष्वपि दृष्टत्वात् , जातं दधीति व्यवहारवत् , तथा जरावत्त्वमपि जीर्ण वासः जीर्णा सुरेति व्यवहारवत् , तथा जीवनहेतुरप्यनेकान्तिकः, सञ्जीवितं विषं, तथा मृतं कुसुम्भमिति व्यवहारात्, तथा सीधोर्गुडाहारवारणं विनष्टानां च मद्यानां उपक्रमैः प्रकृतिप्रत्यापादनं चिकित्सेत्युच्यते, सत्यं, प्रत्येकमेतेनैकान्तिकाः, सर्वे तु समुदिता न कचिदप्यचेतने दृष्टाः, चेतनेम्वेव वनिताप्रभृतिषु दाडिमबीजपूरिकाकूष्माण्डीवल्ल्यादिषु च दृष्टा इत्यनैकान्तिकव्यावृत्तिरिति कृतं प्रसङ्गेनेति, प्रकृतं प्रस्तुमः॥४८॥ बेइंदियादओ पुण पसिद्धया किमिपिपीलिभमराई । कहिऊग तओ पच्छा वयाइं साहिज विहिणा उ॥
JainEduca
For Private
Personel Use Only