________________
श्रीपञ्चव.
उपस्थापनावस्तु ३
॥ १०३ ॥
Jain Educatio
कथितेऽपि सत्यनवगतकायव्रतार्थ च, अपरीक्ष्याधिगतेऽपि नोपस्थापयेद्वतेष्विति गाथार्थः ॥ ३७ ॥ एतदेव भावयतिएगिंदियाइ काया तेसिं (फरिसणभावे) सेसिंदिआणऽभावेऽवि । बहिराईण व णेअं सोत्ताइगमेऽवि जीवत्तं एकेन्दियादयः कायाः, तेषां स्पर्शनभाव एव 'शेषेन्द्रियाणां' रसनादीनामभावेऽपि बधिरादीनामिव ज्ञेयम्, आदिशब्दादन्धादिपरिग्रहः, श्रोत्रादिविगमेऽपि जीवत्वं, तथा कर्म्मविपाकादिति गाथार्थः ॥ ३८ ॥ तथा च
जइ णाम कम्मपरिणइवसेण बहिरस्स सोअमावरिअं । तयभावा सेसिंदिअभावे सो किंनु अजीवो ? ॥ ६३९ ॥
तथा
यदि नाम कर्म्मपरिणतिवशेन बधिरस्य जन्तोः श्रोत्रमावृत्तं, 'तदभावात्' श्रोत्राभावात् शेषेन्द्रियभावे सति 'असौ' बधिरः किं नु अजीवः ?, जीव एवेति गाथार्थः ॥ ३९ ॥ बहिरस्स य अंधस्स य उवहयघाणरसणस्स एमेव । सइ एगंमिवि फासे जीवत्तं हंत ! किमजुत्तं ? ॥६४०॥ बधिरस्य चान्धस्य च, किंविशिष्टस्येत्याह - उपहतघ्राणरसनस्य, 'एवमेव' यथा बधिरस्य, सत्येकस्मिन्नपि स्पर्शने जीवत्वं हन्त ! किमयुक्तम् ?, हन्त ! सम्प्रेषणे, नैवायुक्तमिति गाथार्थः ॥ ४० ॥ एएणं नाएणं चउरिंदिअमाइओऽवगंतव्वा । एगिंदिअपजंता जीवा पच्छाणुपुवी ॥ ६४१ ॥
For Private & Personal Use Only
कायानां जीवत्वं
॥ १०३ ॥
www.jainelibrary.org