________________
Jain Educat
'त्रयाणां सम्यक् श्रुतदेशविरतिसामायिकानां सहस्रपृथक्त्वं, पृथक्त्वमिति द्विप्रभृतिरानवभ्यः, शतपृथक्त्वं च भवति 'विरतेः' सर्वविरतिसामायिकस्य एकेन जन्मनैतद्, अत एवाह - एकभवे ' आकर्षा' ग्रहणमोक्षलक्षणा एतावन्तो भवन्ति ज्ञातव्याः, परतस्त्वप्रतिपातोऽलाभो वेति गाथार्थः ॥ २९ ॥
एएसिमंतरे वाऽपण्णवणिजुत्ति नत्थि दोसो उ । अच्चागो तस्स पुणो संभवओ निरइसइगुरुणा ॥ ६३० ॥
'एतेषाम् ' आकर्षाणामन्तरे वा सामायिकाभावेऽप्रज्ञापनीय इतिकृत्वा नास्त्येव दोषो यथोक्त इति, अत्यागः 'तस्य' सामायिक शून्यस्यापि तस्य वा सामायिकस्य पुनः सम्भवाद्धेतोः, केनेत्याह — निरतिशयगुरुणा, तद्गतरागभावेन योग्यत्वादिति गाथार्थः ॥ ३० ॥ अइसंकिलेसवज्जणहेऊ उचिओ अणेण परिभोगो । जीअं किलिट्टकालोत्ति एव सेसंपि जोइज्जा ॥ ६३१॥
अति (सं) क्लेशवर्जनहेतोः कारणात् तस्यैव उचितः स्यात् अनेन सम्भोग उपध्यादिरूपः जीतं वर्तते - कल्प एषः, किमित्यत आह-क्लिष्टकाल इतिकृत्वा, एवं शेषमपि अत्र शास्त्रे भावमधिकृत्य दूषणाभासपरिहारं योजयेदिति गाथार्थः ॥ ३१ ॥ गमनिकान्तरमधिकृत्याह
अहवा वत्थुसहावो विन्नेओ रायभिच्चमाईणं । जत्थंतरं महंतं लोगविरोहो अणिफलं ॥ ६३२ ॥ अथवा वस्तुस्वभावो विज्ञेयः अत्र प्रक्रमे राज[प्र ] भृत्यादीनां यत्रान्तरं महत् तद्विषयं किमिति ?, लोकविरोधात् कार -
For Private & Personal Use Only
Jainelibrary.org