SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Jain Educato *6464 भावितजिनवचनानां प्राणिनां 'ममत्वरहितानां' सामायिकवतां नास्त्येव 'विशेष:' भेदः, आत्मनि परे च तुल्यशीले, ततः वर्जयेत् पीडामुभयोरपि -स्वपरयोरपीति गाथार्थः ॥ ३९ ॥ इहैव प्रक्रमे वैयावृत्त्यविधिमाह | पुरिसं तस्सुवयारं अवयारं चऽप्पणो अ नाऊणं । कुज्जा वेआवडिअं आणं काउं निरासंसो ॥ ५४० ॥ 'पुरुषम् ' आचार्यादिं तस्योपकारं - स्वाध्यायवृद्धिसत्त्वोपदेशादि ' अपकारं च ' वीर्य -हासश्लेष्मचर्यादिं आत्मनश्चोपकारमपकारं च ज्ञात्वा, उपकारो ज्ञानादेरुपष्टम्भः गुरुजननियोगात् निर्जराव्यत्ययादपकारः, अथवा ग्लानाद्यपेक्षयोपकारापकारौ वाच्यौ, एवं कुर्याद्वैयावृत्त्यम् - अशनदानादि ' आज्ञां कृत्वा' आगमप्रामाण्यात् 'निराशंसो' विहितानुष्ठानबद्धो वेति गाथार्थः ॥ ४० ॥ अस्यैव गुणमाह भरणवि पुवभवे वेआवच्चं कथं सुविहिआणं । सो तस्स फलविवागेण आसि भरहाहिवो राया ॥ ५४१ ॥ भरतेनापि च चक्रवर्त्तिना 'पूर्वभवे' अन्यजन्मनि वैयावृत्त्यं कृतं 'सुविहितानां' साधूनां स 'तस्य' वैयावृत्त्यस्य 'फलविपाकेन' सातावेदनीयोदयेन आसीद् भरताधिपो राजा चक्रवर्तीति गाथार्थः ॥ ४१ ॥ भुंजित्तु भरहवासं सामन्नमणुत्तरं अणुचरिता । अट्ठविहकम्नमुको भरहनरिंदो गओ सिद्धिं ॥ ५४२ ॥ स च भरतः भुक्त्वा भरतवर्षे पट्खण्डं तदनु श्रामण्यमनुत्तरं - प्रधानमनुचरित्वा केवलिविहारेणाष्टविधकर्म्ममुक्तः सन् चरमकाले भरतनरेन्द्रो महात्मा गतः सिद्धिं सर्वोत्तमामिति गाथार्थः ॥ ४२ ॥ ational For Private & Personal Use Only वैयावृत्त्य कृत्यं www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy