________________
सामायिके आकारा
श्रीपञ्चव.
एवं प्रमादिनो-नमस्कारसहिताद्यपरिपालनायुक्तस्य कथं प्रव्रज्या भवति ?, ननु तस्य गुर्वप्रमादपरिपालनीया प्रव्रज्यैप्रतिदिन
वायुक्तेति पराभिप्रायमाशङ्कयाह- चरणपरिणामात् प्रव्रज्या भवति, न च 'तत्सत्तानन्तरमेव' चरणपरिणामसत्तानन्तक्रिया २
रमेव प्रमादः क्षयं याति-निर्मूलतो न भवत्येवेति गाथार्थः ॥ १५॥ किमित्यत आहजमणाइभवब्भत्थो तस्सेव खयत्थमजएणेह । जहगहिअपालणेणं अपमाओ सेविअवोत्ति ॥१६॥
यदनादिभवाभ्यस्तोऽसौ अतस्तस्यैव-प्रमादस्य क्षयार्थमुद्यतेनेह यथागृहीतपालनेन हेतुभूतेनाप्रमादो नियमभावी 'सेवितव्यः' पालनीय इति गाथार्थः ॥ १६॥ पराभिप्रायमाहएवं सामइअंपिहु सागारं निअमओ गहेयव्वं । सइ तम्मि निरागारे किंवा एएण कजंति ? ॥ १७॥
नन्वेवं सामायिकमपि साकारं नियमतो ग्रहीतव्यं, तस्यापि प्रत्याख्यानत्वादेव, तस्मिन् महत्तरेऽनाकारे किंवा अनेनेत्वरेण नमस्कारसहितादिना साकारेण ?, न मूलत एव वा कार्यमिति गाथार्थः ॥ १७॥ अथोत्तरमाहसमभावेच्चिअ जं तं जायइ सव्वत्थ आवकहिअंच । तो तत्थ न आगारा पन्नत्ता वीअरागेहि ॥ १८॥ __ समभाव एव 'तत्'सामायिकं यस्माद् जायते, 'सर्वत्र' सर्वेषु पदार्थेषु समभावे, तथा यावत्कथिकं च तत् , ततः तत्र
सामायिके नाकाराः प्रज्ञप्ता वीतरागैः, तथाविवेकरूपत्वादिति गाथार्थः ॥ १८॥ एतदेव प्रकटयन्नाहसतं खलु निरभिस्संगं समयाए सवभावविसयं तु । कालावहिम्मिवि परं भंगभया णावहित्तेण ॥ १९ ॥
॥८५॥
TAlainelibrary.org
Jain Educatio
n
For Private Personal use only
al