________________
पञ्चव. १५
Jain Education
यस्स कप्पर, अह धाराए छुभइ मणागंपि न कप्पर, पारिट्ठावणियागारो उ लेसओ भणिओ एव इति वृद्धसम्प्रदायः, कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः- आह- इह आकारा एव किमर्थमित्याह
वयभंगे गुरुदोसो थेवस्सवि पालणा गुणकरी अ । गुरुलाघवं च नेअं धम्मम्मि अओ उ आगारा ॥ १२ ॥
व्रतभङ्गो गुरुदोषः भगवदाज्ञाविराधनात् स्तोकस्यापि पालना व्रतस्य गुणकारिणी च विशुद्धकुशलपरिणामरूपत्वाद्, गुरु लाघवं च विज्ञेयं धर्मे, एकान्तग्रहस्य प्रभूतापकारित्वेनाशोभनत्वात्, यत एतदेवमतः - अस्मात् कारणादा कारा इति गाथार्थः ॥ १२ ॥ एतदेव समर्थयति
जहगहिअपालणंमी अपमाओ सेविओ धुवं होइ । सो तह सेविजंतो वड्डइ इअरं विणासेइ ॥ १३ ॥
यथागृहीतपालने विशुद्धभावतया अप्रमादः सेवितो ध्रुवं भवति कियानपि स ' तथा ' यथागृहीतपालनेन सेव्यमानः सन् वर्द्धते, 'इतरं' प्रमादं विनाशयतीति गाथार्थः ॥ १३ ॥
अब्भत्थो अपमाओ तत्तो मा होज कहवि भंगोत्ति । भंगे आणाईआ तओ अ सवे अणत्थत्ति ॥ १४ ॥ अभ्यस्तश्च प्रमादः संसारे पर्यटता, 'ततः' प्रमादात् मा भूत् कथमपि भङ्ग इति, अभ्यासातिशयादित्यर्थः, भने आज्ञादयो भवन्ति, 'ततश्च' आज्ञादेः सर्वेऽनर्थाः जन्मादय इति गाथार्थः ॥ १४ ॥ | एवं पमाइणो कह पवज्जा होइ ? चरणपरिणामा । नय तस्सत्ताणंतरमेव पमाओ खयं जाइ ॥ १५ ॥ ४
For Private & Personal Use Only
%%
आकारप्र योजनादि
www.jainelibrary.org