________________
पञ्चाच. १४
जीवः प्रमादबहुलः 'तद्भावनाभावित एव' प्रमादभावनाभावितस्तु संसारे, यतश्चैवमतोऽभ्यासपाटवात् 'तत्रापि' आलोचनादौ सम्भाव्यते सूक्ष्मः 'असौ' प्रमादः ततश्च दोष इति, तेन कारणेन तज्जयाय कायोत्सर्ग इति गाथार्थः ॥ ७९ ॥ चोएइ हंदि एवं उस्सग्गंमिवि स होइ अणवत्था । भण्णइ तज्जयकरणे का अणवस्था जिए तम्मि ? ॥४८०॥ चोदयति शिक्षकः- हन्त यद्येवं कायोत्सर्गेऽपि सः - सूक्ष्मः प्रमादो भवति, ततश्च तत्रापि दोषः, तज्जयायापरकरणं तत्राप्येष एव वृत्तान्त इत्यनवस्था, एतदाशङ्कयाह-भण्यते प्रतिवचनं - ' तज्जयकरणे' अधिकृतसूक्ष्मप्रमादजयकरणे प्रस्तुते काऽनवस्था जिते 'तस्मिन्' सूक्ष्मप्रमाद इति गाथार्थः ॥ ८० ॥
तत्थवि अ जो ओवि हु जीअइ तेणेव ण य सया करणं । सोवि साहुजोगो जं खलु तप्पच्चणीओत्ति ॥ ४८१ ॥
'तत्रापि च' इतर कायोत्सर्गे यः पूर्वोक्तयुक्त्या पतितः सूक्ष्मः प्रमादः 'तकोऽपि' असावपि 'जीयते' तिरस्क्रियते यदितरेण तदुत्तरकालभाविना कायोत्सर्गेण तत्रापि यः असावपीतरेण, स्यादेतद्, एवं सदा कायोत्सर्गकरणापत्तिरित्याशङ्कयाह-न च सदा करणं, कायोत्सर्गस्येति गम्यते, कुत इत्याह- सर्वोऽपि 'साधुयोगः' सूत्रोक्तः श्रमणव्यापारः यस्मात् खलुशब्दो विशेषणार्थः भावप्रधान इत्यर्थः, 'तत्प्रत्यनीक' इति सूक्ष्मप्रमादप्रत्यनीकः, अत एव भगवदुक्तानुपूर्व्या विहितानुष्ठानवन्तो
Jain Education international
For Private & Personal Use Only
प्रतिक्रमणविधिः
ainelibrary.org