________________
श्रीपञ्चव. प्रतिदिन
क्रिया २
1162 11
Jain Education
धृतिसंहननादीनां हानिं मर्यादाहानिं च ज्ञात्वा 'स्थविरा' गीतार्थाः शिष्यकागीतार्थयोर्विपरिणामनिवृत्त्यर्थं स्थापनां कुर्वन्तीति स्थापना आचरितकल्पस्येति गाथार्थः ॥ ७५ ॥ अहवा
असढेण समाइणं जं कत्थइ केणई असावज्जं । न निवारिअमण्णेहि अ बहुमणुमयमेअमाइणं ॥ ४७६ ॥ अशठेन समाचरितं 'यत्' किञ्चिद् कचित् द्रव्यादौ केनचित् प्रमाणस्थेन असावद्यं प्रकृत्या न निवारितम् अन्यैश्च गीतार्थैश्चारुत्वादेव, इत्थं बह्ननुमतमेतदाचरितमिति गाथार्थः ॥ ७६ ॥ अमुमेवार्थं विशेषेणाहविअडणपच्चक्खाणे सुए अ रयणाहिआवि उ करिंति । मज्झिल्लेण करेंती सो चेव य तेसि पकरेइ ॥ ४७७॥ 'विकटनप्रत्याख्यानयो 'रित्यत्र विकटनम् - आलोचनं प्रत्याख्यानं प्रतीतं श्रुते च उद्दिश्यमानादौ 'रत्नाधिका अपि तु' ज्येष्ठार्या अपि कुर्वन्ति, वन्दनमिति प्रक्रमात् गम्यते, मध्यम इति क्षमण इत्यर्थः, न कुर्वन्ति, अपि तु स एवाचार्यस्तेषां रत्नाधिकानां करोति वन्दनमिति गाथार्थः ॥ ७७ ॥
1
खामित्त तओ एवं करिंति सव्वेऽवि नवरमणवज्जं । रेसिम्मि दुरालोइअ दुप्पडिकंतस्स उस्सग्गं ॥ ४७८॥ क्षमयित्वा 'ततः' तदनन्तरं 'एवम्' उक्तेन प्रकारेण कुर्वन्ति सर्वेऽपि साधवः, नवरमनवद्यं सम्यगित्यर्थः, रेखे दुरालोचित दुष्प्रतिक्रान्तयोः, तन्निमित्तमिति भावः, कायोत्सर्गमिति गाथार्थः ॥ ७८ ॥ अत्रापि कायोत्सर्गकरणे प्रयोजनमाह - जीवो पमायबहुलो तब्भावणभाविओ अ संसारे । तत्थवि संभाविज्जइ सुहुमो सो तेण उस्सग्गो ॥४७९ ॥
For Private & Personal Use Only
आवश्यक विधिः
।। ७८ ।।
ainelibrary.org