________________
6众%
श्रीपञ्चव. प्रतिदिन क्रिया २
अनापाता|संलोकस्वरूपं
॥६८॥
तत्रापातवद द्विविध-स्वपक्षतः परपक्षतश्च ज्ञातव्यं, स्वपक्षापातवत् परपक्षापातवच्चेत्यर्थः, द्विविधं भवति 'स्वपक्ष' इति स्वपक्षविषयं, संयतस्वपक्षापातवत् तथा संयतीस्वपक्षापातवच्चेति गाथार्थः ॥ ७॥ संविग्गमसंविग्गासंविग्ग मणुण्णएअराचेव ।असंविग्गाविय दुविहा तप्पक्खिअ एअरा चेव ॥४०८ दारं | तेच संयतादयो द्विप्रकाराः-संविना असंविग्नाच, संविग्ना-उद्यतविहारिणः असंविग्नाः-शीतलाः,संविना अपि द्विप्रकाराःमनोज्ञा इतरे चैव, मनोज्ञा-एकसामाचारीस्थिता इति, इतरे तु-अमनोज्ञाः भिन्नसामाचारीस्थिता इति, असंविग्ना अपि च द्विविधाः-'तत्पाक्षिका इति' संविग्नपाक्षिकाः 'इतरे चैव' असंविग्नपाक्षिका इति च, ततश्चैतदापातवत् स्थण्डिलमपि तद्व्यपदेशवदवगन्तव्यं, यथा संविग्नसपक्षापातवदित्यादीति गाथार्थः॥ ८॥ उक्तं स्वपक्षापातवत्, परपक्षमधिकृत्याहपरपक्खेविअ दविहं माणुसतेरिच्छियं च नायवं । एकिकंपिअतिविहं इत्थी पुरिसं नपुंसं च ॥४०९॥ ___ 'परपक्षेऽपि च' परपक्षविषयमपि च द्विविध-मानुषं तैरश्चं च ज्ञातव्यं, मानुषापातवत्तिर्यगापातवच्च, एकैकमपि च त्रिविधमेतयोः, कथमित्याह-स्त्री पुरुष नपुंसकं चेति, उपलक्षणत्वात् रूपापातवत्पुरुषापातवन्नपुंसकापातवच्चेति गाथार्थः॥९॥ पुरिसावायं तिविहं दंडिअ कोडुबिए अ पागइए । ते सोअसोअवाई एमेव णपुंसइत्थीसुं ॥४१०॥
पुरुषापातवत् त्रिविधं-दण्डिकापातवत् कुडुम्बिकापातवत् प्राकृतागतवच्च, ते च दण्डिकादयः शौचाशौचवादिनो भवन्ति, एवमेव स्त्रीनपुंसकयोरपि शौचाशौचवादित्वं योज्यम् , एतव्यपदेशाच्च स्थण्डिलस्य तथा व्यपदेश इति गाथार्थः ॥१०॥
%*%*%****616公众
%
%%%>
Jain Educati
o nal
For Private & Personal Use Only
MEnelibrary.org