________________
पञ्चव. १२
अणावायमसंलोए, परस्सऽणुवघाइए । समे अज्झसिरे आवि, अचिरकालकयम्मि अ ॥ ३९९ ॥ विच्छिणे दूरमोगाढे, णासण्णे बिलवज्जिए ।
तसपाणबीअरहिए, उच्चाराईणि वोसिरे ॥ ४०० ॥ दो दारगाहाओ ।
अनापातवत् प्राकृतशैल्या मतुब्लोपाद् अनापातं तत्र एवमसंलोकवदसंलोकं तत्रानापातेऽसंलोके च, 'परस्ये' त्युभयत्र सम्बध्यते, तथा 'अनुपघातिनि' आत्मोपघातादिरहिते, 'सम' इति वैषम्यवर्जिते, 'अशुषिरे वापि' अपोले चापि, 'अचिरकालकृते च' स्वल्पकालनिविष्ट इति गाथार्थः ॥ ९९ ॥ ' विस्तीर्णे' महति, 'दूरावगाढे' गम्भीरे, 'नासन्ने' नातिसमीपस्थे, आरामादेरिति गम्यते, 'बिलवज्र्जिते' दर्यादिरहिते, 'त्रसप्राणिबीजरहिते' स्थावरजङ्गमजन्तुशून्ये, 'उच्चारादीन्' उच्चारश्रवणश्लेष्मादीन् 'व्युत्सृजेत् ' परित्यजेदिति गाथार्थः ॥ ४०० ॥
एक्कंदुतिचउपंचच्छक्कसत्तट्ठनवगद्सएहिं । संजोगा कायद्या भंगसहस्सं चउब्बीसं ॥ ४०१ ॥ इह खलु एकद्वित्रिचतुःपञ्चषट्सप्ताष्टनवदशभिरनन्तरोपन्यस्तैर्भेदैः संयोगाः कर्त्तव्याः, तत्र च भङ्गसहस्रं चतुर्विंशत्युत्तरं भवतीति गाथार्थः ॥ ४०१ ॥ एतच्चैवं द्रष्टव्यमित्याह
दुगसंजोगे चउरो तिगsg सेसेसु दुगुणदुगुणा उ । भंगाणं परिसंखा दसहिं सहस्सं चउवीसं ॥ ४०२ ॥
Jain Education International
For Private & Personal Use Only
-x-xx-xx-xx
स्थण्डिल. दोषाः
www.jainelibrary.org